________________ - 22 काव्यमाला / .. ... अहो, किमपि कमनीये वयसि वर्तते सुमध्यमा / तथा हि। आभोगः कृत एव किं तु न गतिस्त्यक्ता कुचाभ्यां द्वयी . भ्रूलास्यैरवकीर्णमेव मिलितं नो किं तु सम्यग्दृशोः / ... लीलाभिः परिरब्धमेव गमनं तन्व्या नितम्बोद्गम प्राग्भारेण न किं तु मन्थरपदन्यासस्तदा सूत्रितः // 5 // सखे, अपि सत्यं तरङ्गवत्या वचः / . विदूषकः-एदे क्खु मअणमअतिहाविप्पलद्धा कामिणो उम्मत्ता मह पडिहान्ति / जं पञ्चक्खे वि विप्पदिवत्तिं कुणन्ति / जदि सव्वधा ण पत्तिज्जसि ता अकरणिजं पि करोमि / बह्मणीए चलणेहिं सवामि / (क) राजा-हृदय, दिष्टया वर्धसे / यस्यां रक्तं किल कलयसि क्लान्तिमत्यर्थमेवं नूनं वृन्तादिव सरसिज मज्जदन्तर्हिमाम्भः / कृत्वा सद्यः श्रवणयुगले लोलताटङ्करिक्तं सापि स्वैरं विशिखखुरली कल्पिता मन्मथेन // 6 // ('स्फुरल्लीला-' इत्यादि पठति / ) विदूषकः-(विहस्य / ) भो, किं पि पुच्छामि / (ख) राजा-किं न पृच्छसि / विदूषकः-सिणिद्ध मुद्धपहाउडणमणुल्लसणमणोहरं हरसुप्फुल्लकवोलमण्डलं संमुहपलोइदं अवगणिअ कण्णन्तिकगामिणि वक़ जेव्व दिडिं कुविदाणं विअ कामिणीणं कामिणो कीस पसंसन्ति / (ग) (क) एते खलु मदनमृगतृष्णाविप्रलब्धाः कामिन उन्मत्ता मम प्रतिभान्ति / यत्प्रत्यक्षेऽपि विप्रतिपत्तिं कुर्वन्ति / यदि सर्वथा न प्रत्ययसे तदकरणीयमपि करोमि / ब्राह्मण्याश्चरणाभ्यां शपामि / (ख) भोः, किमपि पृच्छामि / (ग) स्निग्धमुग्ध........... मनोहरं हर्षोत्फुल्लकपोलमण्डलं संमुखप्रलोकितमवगणय्य कर्णान्तिकगामिनी वक्रामेव दृष्टिं कुपितानामिव कामिनीनां कामिनः कुतः प्रशंसन्ति /