________________ काव्यमाला। मत्सरः-(आत्मगतम् / ) हन्त, ज्ञातोऽस्म्यनेन मन्दभाग्यः / ज्ञातस्याधुना ममात्मापलापोऽनुचितः / (प्रकाशम् / ) तस्यैवेयं दशा दैवहतकस्य / कुष्ठः- (किंकरं प्रति / ) भद्र, सखायं मे मत्सरः / तन्मुञ्चैनम् / (किंकरस्तथा करोति / ) कुष्ठः-सखे मत्सर, कथं गृहीता भवता कापालिकतापिशाचिका / मत्सरः-सखे, सत्यमाह भवान् कापालिकतापिशाचीति / या खलु मामाकृष्य मरणसुखाद्दुरवस्थामिमां प्रापितवती / कुष्ठः सुखं मरणमप्येवंविधं तव भविष्यति / संगतिः स्वजनेनापि कथं तदुर्दशा परम् // 9 // ___ (मत्सरस्तूष्णीमधोमुखस्तिष्ठति / ) कुष्ठः-सखे, न वदसि किमुत्तरं मे कथय कथयितुं क्षमं यदि तवेदम् / श्रुत्वा विचारयिष्ये त्रपया चालं भिया चालम् // 10 // मत्सरः-सखे, मम किमुपरोधेन / किमन्यद्वनगमनादृते कर्तव्यम् / कुष्ठः ___ कापालिकताद्य कुतः कुतस्तरां ते वने गमनम् / मत्सर: सख्युपरोधेऽरिकृते सर्व संभाव्यतेऽभिमानजुषाम् // 11 // कुष्ठ:-किं शत्रुषूपजापाथै प्रवृत्ताः सखायस्ते निरुद्धाः / मत्सरः-अथ किम् / कुष्ठः-कथय कीदृशो वृत्तान्तः / मत्सरः-(स्वगतम् / ) कथयामि किं रहस्यं पर्यालोचितममात्यवर्येण / उपजापस्य कथं वा जातामाकाशचित्रतामरिषु // 12 // अथवा तपसितुमिच्छन्सख्युः कुष्ठस्य गोपयामि यदि / तद्रोहस्य न किं स्यादास्थानाय स्वहस्तदानमिदम् // 13 //