________________ 5 अङ्कः] . जीवानन्दनम् / संप्राप्ते सति संनिधि परिजने द्राग्बिभ्रतः स्थाणुतां . लीनत्वं दधतोऽथवाधिसरणि स्वं साधयन्तीप्सितम् // 6 // अतः सम्यङ्गिरूपय / (किंकरो गत्वा मत्सरं हस्ते गृह्णाति / ) मत्सरः-(स्वगतम् / ) मम खलु माशब्दकीयमवस्था संप्राप्ता / यद्यहं शब्दं कुर्या ततः स्वरेण मां जानीयुरतोऽविकटं प्रविष्टेन मलिम्लुचेन गृहीत उरभ्र इव तूष्णीमासिष्ये / (इति हस्तं विधुनोति / ) किंकरः-चोर, दृढं गृहीतोऽसि / वृथा ते हस्तधूननम् / (कुष्ठं प्रति / ) आवुक, पुरुषः पुरुषः / गृहीत एष दृढं मया / कुष्ठः-सफलो मे तर्कः / दृढबद्धमेनमत्रैवानय / किंकरः-एहि रे बोर, एहि / रक्तकरवीरमालामामुच्य कण्ठे त्वां संभावयामि / अहो तव तपःप्रभावः / गङ्गाचन्द्रादिपरिकरं विना शूली भविष्यसि / मत्सरः-(स्वगतम् / ) दग्धो मनोरथो मे बत चिन्तितमन्यदापतितम् / (हर्षमभिनीय।) मोक्ष्याम्यथवा शोकादेहवियोगेन भाविना दैवात् // 7 // (किंकरो बलान्मत्सरमाकृष्य कुष्ठनिकटं गमयति / ) कुष्ठः-भद्र, दीपिकासमीपमानय क एष इति पश्यामि / साधारणश्चेन्मोक्ष्याम एनम् / किंकरः-आर्य, ज्ञातचर इव दृश्यते / (इति दीपिकासमीपमानयति / ) कुष्ठः-(निरूप्य / ) अहो रूपमिदं मत्सरस्येव लक्ष्यते, वेषस्तु कापालिकस्य / तथाहि / भस्मानुलेपधवलीकृतसर्वगात्रः श्वेतां वहञ्छिरसि नारकपालमालाम् / एकेन शूलमितरेण दधत्कपालं. हस्तेन तिष्ठति पुरो मृगचर्मवासाः // 8 // भवतु / एनं संबोधयामि / सखे, कीदृशीयमवस्था ते संप्राप्ता /