________________ 4 अङ्कः] . जीवानन्दनम् / 57 मत्री-सोऽप्येतेषां ज्ञातव्य एव स्वामिना / तद्यथा हेमन्ते किल पैत्तिकामयशमो ग्रीष्मे कफोद्यदुजः ___ शान्तिर्वातिकरोगशान्तिरुदयेद्वर्षात्यये केवलम् / एवं षडतुषु स्वभावनतया व्याख्यायि तुभ्यं मया पित्तश्लेष्मनभस्वतां सह चयेनापि प्रकोपः शमः // 39 // अपि च। रजनीमुखार्धरात्रप्रत्यूषा नक्तमहह पूर्वाह्नः / मध्याहोऽप्यपराह्रो वर्षाद्याः षट् प्रकीर्तिता ऋतवः // 40 // एप्वपि पित्तश्लेष्मवातानां संचयप्रकोपशमाः प्राग्वदेव ज्ञातव्याः। राजा-अस्त्वेतत् / दौवारिक, आन्तःपुरिकं जनं प्रवेशय / विदूषकः-किं उक्कण्ठिदो भवं दोलाविहारस्स / (क) राजा-स्मारितं भवता / तथैव क्रियते / मन्त्रिविन्यस्तसमस्तकार्यभरस्य मम विहाराहते कोऽन्यो व्यापारः / मत्री-देव्या सह दोलामधिरोहतु महाराजः / दौवारिक, पद्ममुखी चन्द्रमुखी च चेटीमानय / दौवारिकः-तथा / (इति निष्क्रम्य चेटीभ्यां सह प्रविशति / ) (राजा देवी च दोलाधिरोहणं नाटयतः / ) मत्री-(चेट्यौ प्रति / ) गायन्त्यौ दोलयतं भवत्यौ / प्रथमा जअइ महुतुन्दिरगुणो सुरहिसरो महुरकम्मुओ वीरो / जस्स खु वि जअपताआ सामारुणवामदक्खिणावअवा // 4 1 ॥(ख) विदूषकः-(सकोपम् / ) आः दासीए पुत्ति, वालिसा क्खु तुमं / जह अत्थबोधो ण होदि तह पढिदम् / (ग) (क) किमुत्कण्ठितो भवान्दोलाविहाराय / (ख) जयति मधुतुन्दिलगुणः सुरभिशरो मधुरकार्मुको वीरः / यस्य खल्वपि जयपताका श्यामारुणवामदक्षिणावयवा // (ग) आः दास्याः पुत्रि, बालिशा खलु त्वम् / यथार्थबोधो न भवति तथा पाठितम् /