________________ 58 काव्यमाला। राजा-वयस्य, जयति भ्रमरगुणः पुष्पबाण इक्षुचापो मन्मथः यस्यार्धनारीश्वररूपा विजयपताकेति पद्यार्थः / विदूषकः-(सशिरःकम्पम् / ) जुज्जइ / (क) द्वितीया कैरवणिद्दाभङ्गे चओरतिहाणिवारणे अ पडु / सो को वि जअउ देवो पेक्खन्तणिडालपुरुसमौलिमणी ॥४२॥(ख) विदूषकः-एदस्स पज्जस्स अत्थो वण्णीअदि / (ग) .. राजा-कथमिव / विदूषकः-कैरवविआसआरी चकोरतित्तिआरी भअवं तस्स तिणेतस्स सिहामणी चन्दो जअइ त्ति / (घ) मत्री-सम्यगुक्तः पद्यार्थो भवता / विदूषकः-(सगर्वम् / ) पुव्वपजस्स वि मह अत्थबोधो जादो जेव्व / वअस्सेण अत्थो वण्णीअदि ण वेति तुह्नि ठिदम् / (ङ) मत्री-(विहस्य / ) कः संदेहः। विदूषकः-अमच्च, किं उवहससि मं / एदं सुणादु भवं / धरणीए विअ मह घरणीए अनक्खराए वाआए वि मह अत्थबोधो होइ / (च) ( सर्वे हसन्ति / ) (क) युज्यते / (ख) कैरवनिद्राभङ्गे चकोरतृष्णानिवारणे च पटुः / स कोऽपि जयति देवः पश्यन्निटालपुरुषमौलिमणिः // (ग) एतस्य पद्यस्यार्थो वर्ण्यते / (घ) कैरवविकासकारी चकोरतृप्तिकारी भगवान् तस्य त्रिनेत्रस्य शि. खामणिश्चन्द्रो जयतीति / (ङ) पूर्वपद्यस्यापि ममार्थबोधो जात एव / वयस्येनार्थो वर्ण्यते न वेति तष्णी स्थितम् / (च) अमात्य, किमुपहससि माम् / एतच्छृणोतु भवान् / धरण्या इव मम गृहिण्या अनक्षराया वाचाया अपि ममार्थबोधो भवति /