________________ 4 अङ्कः] . जीवानन्दनम् / मन्दारबकुलचम्पककुरबकसहकारमञ्जरीलोलः / अलिनिकरः केलिश्लथवनलक्ष्मीकेशपाश इव लसति // 30 // देवी–पेक्खदु भवं / (क) किअमाले टिट्टिमओ रसालरुक्खम्मि कोइलो वसइ / णीवविडवे सिहण्डी जम्बूसिहरे सुओ एको // 31 // विदूषकः—(उपसृत्य / ) जेदु वअस्सो / देवि, सोत्थि भोदीए / (ख) मत्री-देव, विजयी भव / देवि, जयतु भवती। राजा-अत्र निषीदतु वयस्यः / इहास्यताममात्येन / मन्त्री-(उपविश्य उद्यानभूमिमभितो विलोक्य / ) आश्चर्यमाश्चर्यम् / इहोद्याने तादृक्पशुपतिदयासादितमहा महिम्नस्ते सेवारंसपरवशाः सर्वत इमे / यथास्वं पुष्प्यन्तो युगपतवः संनिदधते प्रसङ्गादत्राहं कतिचन वदाम्यातवगुणान् // 32 // राजा-अवहिताःशृणुमस्तावत् / (पुरो विलोक्य / ) मन्निन् , पश्य पश्य / स्फुटकुटजमन्दहासा कदम्बमुकुलाभिरामरोमाञ्चा / नीलाम्बुदकुचविगलद्धनपुष्पा विहरतीव वनलक्ष्मीः // 33 // मन्त्री-राजन् , तर्हि वर्षा एताः। पित्तसंचयोऽत्र भवति / एवं हि ऋतुचर्या भिषजो भाषन्ते / राजा-कथमिव / मन्त्री शंसन्ति भाद्रपदमाश्वयुजं च वर्षा स्तास्वौषधिप्रचुरता सुदृशोऽल्पवीर्याः / (क) पश्यतु भवान् / कृतमाले टिट्टिभको रसालवृक्षे कोकिलो वसति / नीपविटपे शिखण्डी जम्बूशिखरे शुक एकः // (ख) जयतु वयस्यः / देवि, स्वस्ति भवत्यै /