________________ काव्यमाला। . राजा-तहत्रैवावस्थीयतां भवता / अहमपि प्रकृतमाहिकं निर्वागच्छामि / (इति दौवारिकेण सह निष्क्रान्तः / ) (नेपथ्ये / ) अभ्यक्तः स्नापिताङ्गः शुचिवसनधरो जप्यमन्त्राञ्जपित्वा देवानभ्यर्च्य भक्त्या घुमघुमितवपुश्चन्दनैश्चन्द्रमित्रैः / रज्यत्ताम्बूलपूर्णाननसरसिरुहो रम्यमारामभागं साकं देव्यैष राजा प्रविशति सुलभो यत्र दोलाविहारः // 26 // मत्री—(आकर्ण्य / ) यत्र महाराजस्तिष्ठति तत्रैव गच्छामः / (इति विद्षकेण सह परिक्रामति / ) (ततः प्रविशति देव्या सह राजा / ) राजा-देवि, पश्य पश्य रामणीयकमारामस्य / क्रीडच्चिक्रीडदन्तक्षतविवरगलन्नालिकेराम्बुधारा संपूर्णावालपुष्प्यत्फलड्डुहुकदलीदाडिमीमातुलुङ्गा / संपुष्प्यत्पूगपाली परिमलमिलितोत्फुल्लमालत्युदञ्च___ सौरभ्योच्छ्रायलभ्यश्रमशमपथिका सेयमारामसीमा // 27 // देवी-मलअपवणचलिदतरुलदापुप्फगन्धा दिसासु विसप्पन्ति / इदो तदो परिब्भमन्तो भमरा कलं कूजन्दि / (क) राजा-युक्तमाह भवती। कुरबककलिका विलोकमाने तरुणपिके मृदु गायति द्विरेफे / नटति किल मुहुः कृतोपदेशा मलयमहीध्रभवेन मारुतेन // 28 // देवि, सर्वतश्चारय चारुसरोरुहदलस्मयमुषी चक्षुषी / कंदांगममन्त्रपाठमुखरे पुस्कोकिले कानन श्रीपाणिग्रहमङ्गले सति मधोर्देवस्य दीप्तौजसः।। वह्नौ पाटलकान्तिपल्लवमये स्मेरप्रसूनोत्करः __ प्रक्षिप्तस्य मतिं न किं कितनुते लाजवजस्याधुना // 29 // __(क) मलयपवनचलिततरुलतापुष्पगन्धा दिशासु विसर्पन्ति / इतस्ततः परिभ्रमन्तो भ्रमराः कलं कूजन्ति /