________________ 4 अङ्कः] . जीवानन्दनम् / राजा-(सप्रश्रयम् / ) परमनुगृहीतोऽस्मि / इदं तु प्रार्थये / - या प्रीतिरविवेकानामिति न्यायात्सदा मम / हृदयान्मापसर्प त्वं प्रसीद करुणानिधे // 24 // भक्तिः -तथा भवतु / (स्मृति प्रति / ) अयि वत्से, एतत्त्वदायत्तम् / स्मृतिः-भअवदि, अवहिदमि / (क) भक्तिः -तथा भवतु / (इति निष्क्रान्ता / ) राजा-(सोत्कण्ठम् / ) कथं गतवती भगवती / (स्मृति प्रति / ) सखि, सर्वदा हृदि संनिहिता भव / स्मृतिः-तह / (ख) (इति निष्क्रान्ता / ) (प्रविश्य) दौवारिकः-देव, एसो अमञ्चो भुत्तवन्तेण विदूसएण अणुगदो आअच्छदि / (ग) . (ततः प्रविशति मन्त्री विदूषकश्च / ) मत्री-भोः, साधु भुक्तं भवता / विदूषकः-देवीए बुद्धीए साहुपडिवेसणं किदं जहमणोरहं उदरं पूरिअम् / (घ) (सहर्ष संस्कृत्यमाश्रित्य / ) ___ भूमौ साधु वितत्य गारुडमणिश्यामं कदल्या दलं शाल्यन्यं घृतपक्कफाणितमथापूपैः सहात्रार्पितम् / धन्या एव हि सूपपायसमधुक्षीराज्यदध्यन्वितं ___ नानाशाकयुतं फलैश्च मधुरैरेवं सदा भुञ्जते // 25 // मत्री-भुक्तवतोऽप्येवमिहादरश्चेत्किमुत बुभुक्षितस्य / (राजानमुपसृत्य / ) विजयतां देवः / देवानुज्ञया सर्वेऽपि सामन्ता यथार्ह संभाविताः / अयमपि बटुराकण्ठमभीप्सिताभ्यवहार्येण भोनितो देव्या / तद्देवेनापि स्नानपूजनभोजनादिविधिनिवर्त्यताम् / (क) भगवति, अवहितास्मि / (ख) तथा / (ग) देव, एषोऽमात्यो भुक्तवता विदूषकेणानुगत आगच्छति / (घ) देव्या बुद्धया साधुपरिवेषणं कृतं यथामनोरथमुदरं पूरितम् /