________________ काव्यमाला। श्रद्धा-जुज्जइ एवं णिरुपधिणिरवधिकरुणाए भअवदीए / ता एहि तं जेव्व अणुग्गहीदुम् / (क) राजा-अहो अमृतासारमयः कोऽप्यालापः कर्णविवरमाप्याययति / सखि, किमागतवती भगवती। स्मृतिः-को संदेहो / (ख) राजा—(पुरोऽवलोक्य / ) अहो / निरुपाधिकनिःसीमकरुणामृतवारिधिः / ... दिष्टया दृष्टा भगवती पुमर्थघटनापटुः // 20 // (उत्थाय सरभसं प्रत्युद्गच्छति / श्रद्धाभक्ती परिक्रम्योपसर्पतः / राजा साष्टाङ्गं प्रणमति / ) भक्तिः-सकलाभीष्टभाजनं भूयाः / श्रद्धा-जेदु जेदु देवो / (ग) राजा-(उत्थाय / ) देवि निरूपधिकरुणानिधे, अपराधिनमपि मामेवमनुगृहीतवत्यसीति सकलमनोस्थानामुपरि वर्तामहे / / अवने हि निरागसां जनानां भजतां जाग्रति दैवतान्तराणि / अवनाद्विहितागसोऽपि मेऽस्तु प्रथितं ते निरुपाधिवत्सलत्वम् // 21 // उक्तं चात्राभियुक्तैः / प्रवहन्ती तु दया तव परिहृतनीचोच्चवस्तुवैषम्या / पततु मयि स्फुटमधुना पङ्गोरुपरीव गगनगङ्गोर्मिः // 22 // भक्तिः-देव, भवान्मामनुसृत्य बलवदुत्कण्ठितः प्रकृतकार्यविमुखः संवृत्त इति श्रुत्वा तत्रभवन्तं सान्त्वयितुमागतास्मि / संप्रति विज्ञानमन्त्रिमतानुसारेणैव प्रकृतशत्रुविजयाय व्याप्रियस्व / तदनन्तरम् निर्जितनिखिलविपक्षं नीरुजमुरुसुस्थमपगतातङ्कम् / अहमागत्य विधास्ये परमानन्दाब्धिमाप्तकामं त्वाम् // 23 // (क) युज्यत एतन्निरुपधिनिरवधिकरुणाया भगवत्याः / तदेहि तमेवानुग्रहीतुम् / (ख) कः संदेहः / (ग) जयतु जयतु देव