________________ 4 अङ्कः] . जीवानन्दनम् / यातं देवं मया जवेन महता तत्पुण्डरीकं पुरं * श्रद्धायै विनिवेदितं च भवदीयौत्कण्ठयमेतादृशम् / तां त्वद्विस्मृतिकोपितामिव मुहुः संप्रार्थ्य भक्ति तयै___ वागत्यानुजिघृक्ष्यसे न तु यथा श्रद्धा समाधात्तथा // 17 // राजा-(सहर्षम् / ) कथमेतावदनुगृहीतः / अहो प्रसादातिशयो मयि भगवत्याः / कथय सखि, किमत्रैवागमनानुग्रहं करिष्यति भगवती / स्मृतिः-अध इं / (क) (ततः प्रविशति श्रद्धया सह भक्तिः / ) भक्तिः-सखि श्रद्धे, सहजनिःसङ्गनिर्मलस्वभावोऽपि देवो जीवस्तथा सर्वपुमर्थप्रसवित्रीमपि मां विस्मृत्य बुद्धिपारवश्यमापन्नो विरसविषयाभिमुख एव संवृत्तः / __ श्रद्धा-अम्ब, देईए गुणमईए दुरच्चआए माआए कुडिलाए एसो अणादिसिद्धो सहावो जं विवेइणं वि पुरिसं मोहिअ विरसविसअप्पवणं करेइ / तह अ कदिदं अहिजुत्तेहिं / (ख) (संस्कृतमाश्रित्य / ) - जरठापि काचिदसती संदर्य गुणान्परस्य पुरुषस्य / सङ्गं विनैव हसितैः सर्वस्वं हरति हन्त किं ब्रूमः // 18 // भक्तिः -भवतु / अतस्तस्मिन्मम दृढः प्रेमातिशयः / सत्यज्ञाननिधिः सदैव सहजानन्दस्वभावोऽप्ययं देवो बुद्धिवशं गतः पुरमिदं त्रातुं व्यवस्यत्यहो / .. अस्त्वेतव्यपयुक्तमात्मकलने तस्मान्निरस्तामयं निश्चिन्तं पुनरीशतत्परममुं कुर्यामभीष्टाप्तये // 19 // .. (क) अथ किम् / (ख) अम्ब, देव्या गुणमय्या दुरत्ययाया मायायाः कुटिलाया एषोऽनादिसिद्धः स्वभावो यद्विवेकिनमपि पुरुषं मोहयित्वा विरसविषयप्रवणं करोति / तथा च कथितमभियुक्तैः। याम .