________________ काव्यमाला। जन्मान्तरीयतपसां परिपाकतः सा प्राप्तापि दैवहतकेन मया विमुक्ता // 14 // तामेव हा स्मितसुधामधुराननेन्दं भक्ति तथा निरुपमामसकृद्विचिन्त्य / स्नातुं च भोक्तुमशितुं शयितुं विहाँ - शक्नोमि नाहमधुना परितप्यमानः // 15 // हृदयानन्दविधात्री भक्ति तामन्तरा न मे सौख्यम् / .. आसारेण विना किं धर्मम्लानस्य शालिनस्तृप्तिः // 16 // तत्कथमहं प्राकृतमिमं व्यासङ्गं परित्यज्य तामेव परमानन्दलीलामनुभूय कृतार्थो भूयासम् / (इति सचिन्तस्तिष्ठति / ) . (ततः प्रविशति स्मृतिः / ) स्मृतिः-अम्मो, भअवदीए शिवभत्तीए विओएण बलिअं उक्कण्ठिदो राआ संपदं ण्हाणभोअणव्वावारं वि णाणुमण्णेदि / ता तुरिअं गदुअ भअवदीए इमं वुत्तन्तं णिवेदिअ ताए णं संयोजइदं यतिस्सं ति पुण्डरीअपुरं गदुअ तत्थ सद्धाए सेविजन्ती भअवदि दिट्टण सद्धामुहेण तह संविधाणं कदुअ आअदमि / ता राअसमीवं गदुअ एवं णिवेदेमि / (इति परिक्रम्योपसृत्य / ) जेदु जेदु देवो / (क) . राजा-(दृष्ट्वा / ) अये, कथमियं स्मृतिः / सखि, दिष्टया चिरादागतासि। स्मृतिः-देव, भअवदिं शिवभत्तिं उद्दिसिअ तुह एआरिसी बलिअं उक्कण्ठं दिट्ठण-(ख) (संस्कृतमाश्रित्य / ) (क) अम्मो, भगवत्याः शिवभक्तेर्वियोगेन बलवदुत्कण्ठितो राजा सांप्रतं स्नानभोजनव्यापारमपि नानुमन्यते / तत्त्वरितं गत्वा भगवत्या इदं वृत्तान्तं निवेद्य तयैनं संयोजयितुं यतिष्ये इति पुण्डरीकपुरं गत्वा तत्र श्रद्धया सेव्यमानां भगवतीं दृष्ट्वा श्रद्धामुखेन तथा संविधानं कृत्वा आगतास्मि / तद्राजसमीपं गत्वा इदं निवेदयामि / जयतु जयतु देवः / . (ख) देव, भगवतीं शिवभक्तिमुद्दिश्य तवैतादृशीं बलवदुत्कण्ठां दृष्ट्वा