________________ 4 अङ्कः] . जीवानन्दनम् / 49 स्नातुं ते परिचारिकाः स्तनभरश्रान्ताः शनैः सांप्रतं .क्वाथोष्णानि जलानि मज्जनगृहे कुम्भीषु संगृह्णते / आयान्तीव तृषा जलार्थनमिषादासां विलासाद्गति हंसाः केशभरश्रियं च शिखिनः स्नेहादिमा याचितुम् // 11 // अत्र च हिरण्मयस्य गृहस्थूणस्य पार्श्वभागे अभ्यङ्गाय सुवर्णपात्रनिहितं तैलं चलत्सौरभं विस्तीर्णस्फुटकर्णिकारकुसुमे येनाभिभाव्यं मधु / न्यस्तं चन्दनदारुनिर्मितमिदं कूर्मासनं चासितुं यत्पृष्ठे पृथिवीव च त्रिगुणिता कौशेयशाटी स्थिता // 12 // अपि च नवाम्बुदश्यामलायां विपुलायतायामिन्द्रनीलमणिनिर्मितायां हर्म्यभित्तौ प्रतिफलितवपुश्चेटींजनस्तडिल्लताविन्यासमवलम्बते / अत्रैव कञ्चल्या दृढसंयतस्तनभरा हारं गले कुर्वती - पश्चाल्लम्बितमम्बरं च जघने काच्या दृढं बनती / खेदाम्भःकणमञ्जरी च भजती चेलाञ्चलेनानने चेटीप्वेकतमेयमत्र यतते कर्तुं तवाभ्यञ्जनम् // 13 // राजा-दौवारिक, मन्त्री विदूषकश्च कृतोचितव्यापारो न वेति विचार्यताम् / अहमप्यत्र स्नात्वा कृतशिवार्चनो भोजनाय यतिष्ये / दौवारिकः-तह / (क) (इति निष्क्रान्तः / ) / राजा-(स्मृतिमभिनीय / ) अये महानुभावा शिवभक्तिः, यस्याः प्रसादाद्भगवन्तं साम्ब साक्षात्कृत्य तदीयकरुणाकटाक्षामृतनिःष्यन्दकन्दलिताखिलपुमर्थोऽपि . सन्संप्रति प्राकृतानर्थनिवर्तकारसगन्धकानासाद्य तावतैव कृतकृत्यंमन्यो मूढोऽहं विस्मृतवानस्मि तां भगवतीं शिवभक्तिम् / अहो धिक् प्रमादम् / नूनं सा भगवती मां कृतघ्नं मन्येत / (निःश्वस्य / ) दृङ्मात्रदर्शितनिजप्रथितप्रभावा प्रह्लादभूमसुरभूरुहमूलभूता। (क) तथा।