________________ काव्यमाला। राजा-मन्त्रिन्, दत्तानि भूपतिभिरेभिरुपायनानि तेषां वशे कुरु मयाधिकृता नरा ये / एतान्समाजयितुमर्पय तत्तदर्हा न्युष्णीषकञ्चुकदुकूलविभूषणानि // 10 // मन्त्री यथाज्ञापयति देवः / विदूषकः-णं वअस्स, मए वि विजई होइत्ति वाआमेत्तेण तुह उवाअणं दिण्णं तदो बुभुक्खिदं मं किं त्ति ण संभावेसि / (क) मन्त्री राजन् , श्रोतव्यः कार्यशेषः / / विदूषकः-हुं, चिट्ठदु दासीए वच्छो कजसेसो / वअस्स, किं मह पडिवअणम् / (ख) राजा-मन्निन् , ब्राह्मणस्य प्रथमं भोजनं निर्वतयेति अन्तःपुरं गत्वा देवीं वद / अतः प्रागेव संभाव्यात्र सामन्तभूपान्स्वस्थानं प्रेषय / वयस्य, त्वमपि मन्त्रिणा सह गच्छ। . विदूषकः-दीहाओ होइ / (ग) . मन्त्री विजयी भवतु देवः / (इति विदूषकेन सह निष्क्रान्तः / ) राजा-कः कोऽत्र भोः। . (प्रविश्य) ' दौवारिकः-आणवेदु महाराओ / (घ) राजा-मज्जनगृहमार्गमादेशय / दौवारिकः-इदो इदो भवं / (ङ) (परिक्रम्यावलोक्य च संस्कृतमाश्रित्य / ) (क) ननु वयस्य, मयापि विजयी भवेति वाचामात्रेण तवोपायनं दत्तं तद्वभुक्षितं मां किमिति न संभावयसि / (ख) हुं, तिष्ठतु दास्या वत्सः कार्यशेषः / वयस्य, किं मम प्रतिवचनम् / (ग) दीर्घायुभव / (घ) आज्ञापयतु महाराजः / (ङ) इत इतो भवान् /