________________ 47 3 अङ्कः] . जीवानन्दनम् / मत्री-(विहस्य 1) भोजनेन तत्प्रकारस्य तत्साधनस्य च श्रवणे कुतूहली भवान् / (प्रविश्य) दौवारिकः-महाराअ, उवाअणहत्था सामन्तभूवाला संपत्ता मए वि तिदीअकच्छं पवेसिदा महाराओ पेक्खिदव्वोत्ति चिट्ठन्ति / (क) (राजा मन्त्री च तद्दर्शनप्रदानाय निर्गमनं नाटयतः / ) विदूषकः--(आत्मगतम् / ) अए दासीएपुत्तेहिं सामन्तराएहिं मम ऊसाहभङ्गो किदो। (ख) - (इति तदनुसरणं नाटयति / ) मन्त्री-एते स्वामिनं प्रणमन्ति / / राजा-(आकाशे / ) अपि कुशलिनो यूयम् / मत्री-एते 'स्वामिनः कुशलप्रश्नेन कृतार्थाः स्मः' इति वदन्ति / विदूषकः—(स्वगतम् / ) बुभुक्खिदस्स मह अकुसलं ति ण जाणादि वअस्सो / (ग) मत्री कश्चित्स्वर्णौघमेको मणिगणमपरो भूषणबातमन्यः : क्षौमस्तोमं परोऽश्वान्रथकुलमितरो बालमातङ्गसंघम् / सामन्तक्षोणिपालेप्वहमहमिकयोपाहरदृष्टिपातै .....देवस्यानुग्रहीतुं सकरुणमुचितं सर्वमित्यर्थयेऽहम् // 8 // अपि च / हंसाश्चित्रगताः शुकाः स्फुटगिरो लावा मिथोऽमर्षिणः श्येनाः शीघ्रजवाः शिखण्डिन उपारोहत्कलापोच्चयाः। आनीतास्तपनीयपञ्जरगता भूपैरमीभिर्मुदा किं चावेक्षितविक्रमाश्च मृगयाकालेषु कौलेयकाः // 9 // (क) महाराज, उपायनहस्ताः सामन्तभूपालाः संप्राप्ता मयापि तृतीयकक्षा प्रवेशिता महाराजः प्रेक्षितव्य इति तिष्ठन्ति / (ख) अये, दास्या:पुत्रैः सामन्तराजैर्ममोत्साहभङ्गः कृतः / (ग) बुभुक्षितस्य ममाकुशलमिति न जानाति वयस्यः।