________________ 42 काव्यमाला। अस्त्यत्र लौकिकोऽप्याभाणकः- 'स्वनाशाछेदेन शत्रोरमङ्गलमापादयत्यनात्मनीनो मूर्खः' इति / देवी-ता कहिं दाणिं एत्तिआणं रोगाणं णिग्गहो सुअरो / (क) मंत्री-देवि, मा भैषीः / निखिलरोगनिसर्गवैरिणि रसे स्वाधीने कः शत्रुजये संदेहः। राजा-तर्हि कुतो विलम्ब्यते / मत्री-अहं पुनरधुना रसमोषधीभिः सह संयोजयितुं गच्छामि / देवेनापि विश्रम्यताम् / (इति निष्क्रान्ताः सर्वे / ) इति तृतीयोऽङ्कः / चतुर्थोऽङ्कः / (ततः प्रविशति विदूषकः / ) विदूषकः-उत्तं खु दोआरिएण पाणेण रण्णो रसगन्धअवरप्पदाणं सुणिअ बलिअं रोसवसंगदेण जक्खहदएण पण्डुणा सह किंवि मन्तूण सपरिवारस्स अम्हाणं रणो उवरि वइक्कमं किंवि कादं उज्जोओ करीअदित्ति सुद्रवन्देण विण्णाणणामहेएण मन्तिणा कज्जगदि आवेदिअमाणो अन्तेउरवेदिअन्तरे चिट्ठदित्ति / ता राअसमीपं गमिस्सम् / (इति परिक्रम्योदरं करतलेन परामृष्य।) अहो, मुहुत्तादो पुव्वं खादिदं मातुलुङ्गफलप्पमाणाणं मोदआणं सदं वि जिण जादम् / जंतस्सि समए धण्णकुम्भीपीणुत्तुङ्गो मह पिचण्डो ठिदो / दाणि उण तिण्णकिदो कटो विअ तणूहोदि। (विमृष्य / ) णं मज्झण्णो वट्टदि / तह हि। पत्तगदं घरहरिणो तिलाए पिबइ सीअलं सलिलम् / गन्धेण कुणइ सुहिदं घाणं घिदमिस्ससक्करापूवो // 1 // अहो पमादो / राअसमीवं गमिस्सं ति महाणससमीवं गदो मि / अदो एव्व तह वत्तुलतणुअरगोधूमापूवसंहितसरावेहिं माहिसदहिमण्डमिस्सिदमासविरइअभक्खविसेसणिबिडिअभाअणेहिं परितत्तम्बरिसभजिदचणअचअपूरिअपिण्डएहिं फाणिअसंकलिअनवधाणासमुल्लसिदविसालामत्तेहिं दुद्धदहिसकरासलिलभाविदविविहपिथुअरासिसंपुण्णविसङ्कडचसअविसेसेहिं मल्लिअमुउलपुञ्जधवलसालितण्डुलन्नसमुच्चअविराजिदतम्ममअभण्डगणब्भन्तरहाविदसुवण्णसवण्णसूपणिहाणपिठरेहिं कित्तपरिवकवन्ताककारइलपटोल (क) तत्कथमिदानीमेतावतां रोगाणां निग्रहः सुकरः /