________________ 3 अङ्कः] जीवानन्दनम् / कोसातईणिप्पावराअमासकदलीपणसकुब्भण्डप्पमुहसलाटुखण्डमयशाकषण्डमण्डिबहुविधभाअणविसेसेहिं अ परिसोहमाणस्स महाणसस्स विसमरो गन्धो / घुमघुमाअदि मे णासाबिलम् / सिलसिलाअदि तालुरसणामूले सुणिग्गत्तरं लालाजलम् / पजलदिव्व हणूमन्तवालग्गलग्गग्गिसिहागहिदघरपरम्परं लङ्काउरं विअ बुभुक्खाउरं मे उदरम् / (किंचित्पुरतो विलोक्य / ) इह खु महाणसदुवारदेसे अवणदपुव्वकाओ विलोईअदि चुहिपावअपज्जलणत्थफुक्कारपवणविकिण्णभसितलेशपुञ्जधूसरमुखो णिडिलदीसन्तविरलसेदम्बुकणिओ करङ्गुलीलग्गहिङ्गुपरिमलसंतप्पिदसमीवगदजणघाणेन्दिओ ईससंकमिदेङ्गाललञ्छिदपरिधाणपडो. दक्खिणकरग्गहीददव्वीसिहरतणुतरदीसन्तविलोलिअसाअपाअवप्फो अण्णकरलम्बितेन्धणसअलो भद्दमुहो णाम पौरोगवो / ता एणं एव्व पुच्छामि / अए भद्दमुह, तुए पक्केसु भक्खविसेसेसु किं वि किं वि मह हत्थे दादव्वं जं भक्खिअ एवं सुटु एदं णेत्ति विआरिअ कहेमि जं सुटु तं परिवेसिअ रण्णो हत्थादो पारितोसिअंगेह्रदु भवम् / (सामर्षम् / ) कहं एसो दासीएपुत्तो 'जइ तुह बुभुक्खा तदो रण्णो समीपं गदुअ भोअणं दादव्वं ति पुच्छ / अहं उदरंभरिणो तुह किं बि ण दाइस्सं' ति भणिअ महाणसब्भन्तरं गदो / होदु / राअसमीपं गमिस्सम् / (इति परिक्रम्यावलोक्य च / ) कहं एत्थ राअसमीवे विअणे अलगद्देण गिह्निअ बिलं पवेसिदो मण्डूओ विअ किं वि अणक्खरं पलवन्तो अमच्चो वेधवेओ (?) चिट्ठइ / ता समअं पडिवालइस्सम् / (इति तिष्ठति / ) (क) (क) उक्तं खलु दौवारिकेण प्राणेन राज्ञो रसगन्धवरप्रदानं श्रुत्वा बलवद्रोषवशंगतेन यक्ष्महतकेन पाण्डुना सह किमपि मन्त्रयित्वा सपरिवारस्यास्माकं राज्ञ उपरि व्यतिक्रमं किमपि कर्तुमुद्योगः क्रियत इति श्रुतवता विज्ञाननामधेयेन मन्त्रिणा कार्यगतिमावेद्यमानोऽन्तःपुरवेदिकान्तरे तिष्ठतीति / तद्राजसमीपं गमिष्यामि / अहो, मुहूर्तात्पूर्वं खादितं मातुलुङ्गफलप्रमाणानां मोदकानां शतमपि जीर्ण जातम् / यत्तस्मिन्समये धान्यकुम्भीपीनोत्तुङ्गं मम पिचण्डं स्थितम् / इदानीं पुनस्तृणकृतः कट इव तनूभवति / ननु मध्याह्रो वर्तते / तथाहि /