________________ 3 अङ्कः] . जीवानन्दनम् / मत्री-श्रूयतां तावत् / . पुण्डरीकपुरं राज्ञि प्रविष्टे रन्ध्रलाभतः / खराजानुज्ञया पाण्डुररुधत्सैनिकैः पुरम् // 33 // यक्ष्महतकस्यास्सच्छत्रोर्बहवः सैनिकाः / ग्रहण्यश्मर्यतीसारशूलार्शःपाण्डुकामलाः। विषूचिकाकुष्ठगुल्मसंनिपातज्वरादयः // 34 // देवी-अमञ्च, एत्तिअं पुरोपरोहसंरम्भं कुणन्तेण सहसैणिएण तेण जक्खहदएण अम्हाणं किं अच्चाहिदं कादव्वम् / (क) मत्री-देवि, पुरान्निष्क्रमयितव्या वयमित्येव तस्य हताशस्य दुराशाभिनिवेशः। देवी-अहो अणत्तणीणत्तणं जक्खहदअस्स / जो अम्हेसु पुरादो णिकन्तेसु स कहिं ठाइस्संति अप्पणो वि णासं ण गणेदि / (ख) .. मत्री-सत्यमुक्तं देव्या / महापातकसंभूतेस्तस्य पापस्य यक्ष्मणः / वैरायितमिदं चित्रं स्वविनाशमपीच्छतः // 35 // यदुक्तमभियुक्तैः 'अपथ्यसेविनश्चौरा राजदाररता अपि / / जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः // 36 // ' इति / ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ह्येवं या समभाणि भर्तृहरिणा काष्ठा परा पापिनाम् / तामेतामतिशेत एष सपरीवारस्य नाशं निज स्योत्पश्यन्नपि निष्क्रमाय यतते यो नः पुरात्पातकी // 37 // (क) अमात्य, एतावन्तं पुरोपरोधसंरम्भं कुर्वाणेन सहसैनिकेन तेन यमहतकेनास्माकं किमत्याहितं कर्तव्यम् / (ख) अहो अनात्मनीनत्वं यक्ष्महतकस्य / योऽस्मासु पुरान्निष्क्रान्तेषु स्वयं कुत्र स्थास्यामीत्यात्मनोऽपि नाशं न गणयति /