________________ 3 अङ्कः] जीवानन्दनम् / शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् / अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च // 26 // " किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति / देवी-(सलजं सदृष्टिक्षेपं च / ) संपत्तो एसो विण्णाणणामहेओ अमच्चो / ता णम्मालावस्स ण एसो समओ / (क) राजा-(विलोक्य / ) अये, मन्त्रिबृहस्पतिः संप्राप्तः / (सानुशयम् / ) कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुर्द्विषं ___ स्वस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च / अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं __ प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया // 27 // एतदनुज्ञयैव निर्विचारमानसेन मंया कृतं भगवदाराधनम् / मत्री-(उपसृत्य / ). स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम् / जीवः--भवत्साहाय्यमेवात्र हेतुः / / बुद्धिः-एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ / (ख) राजा-अत्र निषीदतु भवान् / मत्री-(उपविश्य / ) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि वतामहे / राजा-तदेव वक्तुकामोऽस्मि / मन्त्री-अवहितोऽस्मि / राजा-त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्धा तथैवोपविष्टोऽहम् / शुद्धान्तःकरणेन संततपरिध्यातार्ककोटिप्रभ प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः / (क) संप्राप्त एष विज्ञाननामधेयोऽमात्यः / तन्नर्मालापस्य नैष समयः / (ख) एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुभव /