________________ . 38 काव्यमाला। गवद्भक्तिर्नाम कापि कल्पलता प्रथममङ्कुरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती / अनितरसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलषितान्रसगन्धकादीन्प्रसादीकृत्यार्पितवन्तौ / अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलषितं पुमर्थ लप्स्यामहे / बुद्धिः-अजउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा सअं जेव्व विवक्खक्खवणं णिव्वहन्दि / (क) राजा-देवि, दिव्यौषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्तसामर्थ्या ह्येते। देवी–ता एव्वं संविहाणसमत्येण केण वि होदव्वम् / (ख) राजा-विज्ञानशर्मैवात्र निर्वोढा / यतः / ऋषिरेव विजानाति द्रव्यसंयोगजं गुणम् / विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधिक्रषिः // 22 // किं च / महेशतेनःसंभूतो रसः कारुणिकाग्रणीः / यः स्वानिष्टमुरीकृत्य परपीडां व्यपोहति // 23 // तदुक्तम् 'मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति / अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् // 24 // ' 'सुरगुरुगोद्विजहंसापायकलापोद्भवं किलासाध्यम् / श्चित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः // 25 // गन्धकस्यापि माहात्म्यमुक्तम् 'ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके / (क) आर्यपुत्र, किमेते रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति / (ख) तदेवं संविधानसमर्थेन केनापि भवितव्यम् /