________________ 3 अङ्कः] . जीवानन्दनम् / मन्त्री-(श्रुत्वा सहर्षम् / ) समद्युत(?)प्राणनिरोधेन निर्धूतसकलतपोविप्लेन विशुद्धाद्वैतज्ञानसाधनेन समाराधितयोधूर्जटिधरराजकन्ययोः प्रसादेन राज्ञा रसो हस्तगतः कृत इत्यनेन वैतालिकवचनेन सूच्यते / (पुनर्नेपथ्ये / ) दिमण्डलस्य विमलीकरणे प्रवीणा निर्विघ्नमुत्सृजति नीरजबन्धुरंशून् / पङ्कश्च पान्थपदयोगममृष्यमाणः संशोषमेत्य शकलीभवति क्षणेन // 19 // मन्त्रीः-(श्रुत्वा / ) एतेनापि वचसा निरोगीकरणसमर्थान्सान्प्रयोक्तं राज्ञस्तस्य च यक्ष्महतकस्य विनशितुं प्राप्तः कालोऽयमिति च सूच्यते / (सवहुमानम् / ) साधु रे वैतालिक, साधु / यदधुना गूढाभिप्रायेण भवता बोधितव्यं बोधितम् / तदेव वृत्तं सप्रकारमवगमयितुं राजानं प्रत्युद्गमनेन बहुमन्तुं च तत्रैव गच्छामि / (इत्युत्थाय आकाशे / ) अरे यक्ष्महतक, भवदीयमतःपरं पश्यामि शौण्डीर्यम् / (पुरो विलोक्य / ) कथमागत एव देवः / यतो देवी पुरोमार्गप्रदर्शिनी पुरो दृश्यते / यैषा धम्मिल्ले घनसंनिभे सिततडिद्वल्येव मल्लीस्रजा वक्रेन्दो रुचिरेण नाभितिलकव्याजात्कलङ्केन च / . हारेण स्तनकोकयोरपि बिसस्वच्छेन चायामिना पादाम्भोरुहयोश्च हंसकयुगेनाराविणा राजते // 20 // अयमपि महाराजस्तस्या अनुपदमागच्छति / संप्रति हि एतस्य . ' विचारविगमादिदं विलसति प्रसन्नं मुखं _ गृहीतसुषमं हिमव्यपगमादिवाम्भोरुहम् / विषाणिन इव प्रतिद्विरददर्शनामर्षिणो गतिश्च किल मेदिनी नमयतीव धीरोद्धता // 21 // ___ (ततः प्रविशति जीवो बुद्धिश्च / ) / जीव:-अहो श्रुतिस्मृतिविहितानां कर्मणां प्रभावः / यानि मया समयेषु समनुष्ठितानि मदीयमन्तःकरणमशोधयन् / शोधिते च तस्मिन्भ- .