________________ काव्यमाला / खितेनाहिनकुलेनाश्वमहिषेण गोव्याघेण च भित्तिषु निर्वैरसत्त्वान्यनुकुर्वन्ति चत्वराणि तपोधनाश्रमपदस्य / (अन्यतोऽवलोक्य सहासम् / ) दृष्ट्वाकृष्टकचामुदस्तचिबुकां पत्या कराभ्यां बला___ कामप्येणदृशं करौ विधुवतीमाखाद्यमानाधराम् / आलेख्ये पुरशिल्पिना विरचितां भित्तौ बहिर्मन्दिरा नार्यः सस्मितनम्रवककमलाः कर्षन्ति यूनां मनः // 16 // नन्विदानीमत्र नगरालंकारदर्शिनो राज्ञः समागमं प्रतीक्षमाणाः पौरास्तस्य परमुपचाराय संनयन्ति / तथा हि / स्थाप्यन्ते गृहवासवेदिषु घटाः संवेष्टितास्तन्तुभिः प्रत्यग्राम्रदलप्रसाधितमुखा विप्रैः पयःपूरिताः / कन्याभिघृतसिक्तवर्तिनिकरैर्नीराजनाभाजनैः साध्यन्ते सममेव लाजसुमनश्चित्राणि पात्राणि च // 17 // (विचिन्त्य / ) कथमसौ राजा लिप्सितं फलं लब्ध्वा समायास्यति / कथमस्य साम्बशिवप्रसादमन्तरेण लिप्सितफललाभः / कथं वा कठोराणि तपांसि विनानेन सुलभः शिवप्रसादः / कथमनेन वकालविकस्वरशिरीषदलकोमलशरीरेण सुकरा कठोरा तपश्चर्या / न चैतस्य तादृशतपश्चरणादृतेऽखिलपुरुषार्थसाधनं भगवतश्चन्द्रकलावतंसस्य निरन्तरध्यानं संभाव्यते / नलिनीदलान्तरालतरलोदबिन्दुसमस्यन्दा दुनिरोधा हि चित्तवृत्तयः / तदिदानीं मदीयमन्तःकरणं दुरन्तचिन्तोदधौ निमज्य पुनरुन्मज्जति / अथवा कस्य किमसंभावितमनुकूलतामुपगते दैवे / (दक्षिणभुजस्पन्दमभिनीय / ) कथमस्थाने मम विचारः / सर्वं सुघटितं भविष्यति / (नेपथ्ये) वैतालिकःवातं प्रावृषिकं निरुध्य सहसा गात्रप्रकम्पप्रदं ___ संफुल्लानि विधाय चारुकमलान्यासाद्य हंसागमम् / दिष्टया लब्धवता प्रसादमधिकं वापीजलाधारयोः . सद्यः शारदवासरेण धवलो मेघोऽम्बरं प्रापितः // 18 //