________________ काव्यमाला। नितिसर्वतन्त्रेषु विगूढामोघमन्त्रेषु मन्त्रिषु विश्यस्तसमस्तकार्यभरस्य तु राज्ञो निश्चिन्ततैव / परंतु तेषां व्याकृष्यन्ते दुरन्तया चिन्तया हृदयानि / सामन्ताविनमेयुरित्युपचयः कोषस्य सिद्ध्येदिति स्थानेषु द्विषतां स्थितीरपि चराः पश्येयुराप्ता इति / स्यादायोपगमो यथेति विभवैस्तुष्टाः प्रवीरा भटा वर्तेरन्निति मा मलिम्लुचगणाद्भूरुद्विजेतेति च // 10 // अहमपि राज्ञा विन्यस्तसमस्तकार्यभारतया यत्सत्यं व्याकुल एव / तथा हि / कार्येषूक्तेषु राज्ञा कतिचिदपि मया साधितान्येव पूर्व . साधिष्यन्ते परस्तात्कतिचन कतिचिच्चापि साध्यन्त एव / किंचानुक्तेषु सद्यः किमपि किल कुशाग्रीययात्मीयबुद्ध्या पर्यालोच्यैव तत्तत्समयसमुचितं कर्तुमुत्कण्ठितोऽस्मि // 11 // अत एव सर्वत्र तत्रतत्र व्यापृते मया पुरगुप्त्यै मत्सदृश एव कोऽपि विनियुक्तो विचारनामा नागरिकः / तत्प्रकृतकार्ये व्यापृतव्यम् / कः कोऽत्र भोः। (प्रविश्य / ) दौवारिकः-विजयतां देवः। . मत्री-भद्र, मद्वचनेनानुशासनीयाः पौरा नगरालंकाराय / आलिम्पन्तां सुधाभिः पुरसदनगता भित्तयो भृत्यवगै रम्भास्तम्भाः क्रियन्तां कपिशफलभृतः पार्श्वयोर्धारभूमेः / बध्यन्तां तोरणानि श्रितनवमणिभिर्दामभिः सन्तु रथ्याः ___ संमृष्टाश्चाम्बुसिक्ताः प्रतिगृहमुपरि ग्रथ्यतां केतनाली // 12 // यतः संप्रत्येव सिद्धप्रतिज्ञो राजा समागमिष्यति / दौवारिकः—यदाज्ञापयत्यार्यः / (इति निष्क्रान्तः / ) मत्री-(सदृष्टिक्षेपं परिवृत्त्यावलोक्य च / ) अहो रिपूणां पुरावस्कन्दनप्रकारः / तथा हि / पाण्डुना प्रेरिता रोगाः,