________________ काव्यमाला। नागरिकः-तर्हि शिक्षयतु भवानिमम् / / किंकरः-अरे, कथय तथ्यम् / मृषावादिनस्तव वैदिकता राजशासनस्य न प्रतिरोधिनी / (इति कशामुद्यच्छति / ) पुरुषः—मा ताडय / तथ्यं वदामि / नागरिकः-यदि तथ्यं वदसि तदा विज्ञानमन्त्रिणं दर्शयित्वा संभावयिष्यामि / किंकरः-प्रतीहार्या धारणया सह प्रासादमधिरूढो मन्त्री / तत्संनिधौ त्वमपि नेष्यसे / पुरुषः-(स्वगतम् / ) तथा चेन्मम दुर्लभमेव जीवितम् / (प्रकाशं भीतिमभिनीय / ) अभयं मे दीयतां यदि तथ्यमेव श्रोतव्यम् / (इति प्रणमति / ) नागरिकः-दत्तभयोऽसि / कथयात्मानम् / पुरुषः-(उत्थाय प्राञ्जलिः / ) हृद्रोगोऽस्मि / विसृज मां दयया / नागरिकः-चार एवायं वैदिकवेषमवलम्ब्यागतो दत्ताभयश्च / किंकरः—तर्हि किं कर्तव्यम् / नागरिकः-'सर्वमिदं राजकार्य त्वया कस्मैचिदपि न कथनीयम्' इति शपथं गृहीत्वा पुराबहिर्विसृज्यताम् / अथवा किमनेन वराकेण कथनीयम् / दत्ताभयोऽयमिति मन्त्रिणे निवेद्य कथंचिन्मोचयितव्यः / किंकरः-तथा करोमि / (इति निष्क्रान्तः / ) (नेपथ्ये कुकुटध्वनिः / ) नागरिकः-(आकर्ण्य / ) कथं रजनीविरामः / (पुनर्नेपथ्ये) वैतालिकःपत्यावस्तं व्रजति विगलच्चञ्चरीकाञ्जनाश्रु त्रासान्मीलद्दलदृशमितो रागमर्कक्रमेण / द्रागालिङ्गेदपि कुमुदिनीमित्यपन्यायशङ्की कृकूशब्दं विसृजति जवात्कुक्कुटः पूर्वमेव // 4 //