________________ श्री. 3 अङ्कः] . जीवानन्दनम् / नागरिक:-अस्त्वेतत् / कुतो रात्रिसंचारः / पुरुषः–यस्यकस्यचिद्यत्किचिद्भाविफलमुक्त्वा पारितोषिकं गृह्णामीति। नागरिकः-किं दिवसस्ते तत्कर्मणो न पर्याप्तः / पुरुषः-बाढम् / श्रूयताम् / / यामो यात्यविलम्बितं दिनमुखे स्नानादिभिः कर्मभिः पश्चाद्भिक्षितुमारभे प्रतिदिनं धान्यानि वा तण्डुलान् / तैरन्नाद्युपपाद्य धूर्जटिमुखान्देवान्निवेद्यातिथी___ संताश्नत एव याति दिवसः शेषः कुतः संचरः // 2 // किंकरः-अये, युक्तमिदम् / इह तु यामादूर्ध्व रुध्यते नगरसंचारः / पुरुषः-यदीदानी यामादू कालस्तहि न संचरामि खप्स्यामि / किंकरः-कुत्र निद्रास्थानम् / . पुरुषः-धर्मशालायाम् / नागरिकः-किमिदं राजमन्दिरं तव धर्मशाला / अत्र हि नोंकारः पुवते न गीतिरटति स्वाहेति न श्रूयते न न्यायव्यवहारतारवचसः संघीभवन्ति द्विनाः / नात्युच्चैः पृषदाज्यहोमसुरभिधूम्या जरीजृम्भते ... भक्ताः पञ्चजनाः स्वपन्ति परितो न स्त्री कुमारो न च // 3 // पुरुषः-अस्त्विदं राजमन्दिरं तथापि सुप्रवेशमसादृशामिति श्रुतमस्ति / नागरिकः-सुप्रवेशमिति कस्मात्त्वया श्रुतम् / पुरुषः-आर्यमिश्रेभ्य एव / नागरिकः-हन्त, किमस्माभिरिदं कथितम् / पुरुषः-नहि नहि / अन्यजनैः / नागरिकः-कैस्ते कथितम् / यदिदं परिचितजनस्यापि राजशासनमन्तरेण दुष्प्रवेशम्, किं पुनरपरिचितस्य ते / किंकरः-विसंस्थुलेवास्य वचनव्यक्तिः गृहीत इव चोरस्तरलतारकविलोचनः पश्यन्नयं वक्तुं न शक्तः प्रत्युत्तरं ततश्वर इव लक्ष्यते /