________________ काव्यमाला। (ततः प्रविशति गलगण्डेनानुगम्यमानः कासः / ) (कासो जानुभ्यां प्रणम्य किंचिदुपसर्पति / ) पाण्डुः–भद्र, कीदृशो मयि राजनियोगः / कासः--(करपिहितमुखः / कर्णे / ) एवमेवम् / पाण्डुः-भद्र, तदर्थमेवेयं बद्धपरिकरता / तिष्ठ त्वमत्रैव। राजानमिममुदन्तमन्यमुखेन प्रापयिष्ये। (नेपथ्ये यामप्रहारध्वनिः / ) पाण्दुः- श्रुत्वा सैनिकान्प्रति / ) तदहमिदानीं कार्यशेषं निवर्त्य प्रकृतकार्यार्थ संनह्यामि / भवन्तोऽपि तावत् बिभ्राणास्तान्युपमितमहाभोगिभिर्बाहुदण्डै र्येषां येषां दधति निजतां यानि यान्यायुधानि / वस्वस्थानेष्ववहितमनोवृत्तयस्त्यक्तशङ्काः सर्वे तिष्ठन्त्वरिपुरमभिव्याप्य सैन्याः प्रवीराः // 41 // (इति निष्क्रान्ताः सर्वे / ) इति द्वितीयोऽङ्कः। तृतीयोऽङ्कः। (ततः प्रविशति पश्चाद्बद्धं पुरुषं किंकरेण विकर्षन् विचारो नागरिकः / ) नागरिकः-अङ्ग गद, कस्त्वमसि / पुरुषः-(स्वगतम् / ) किमहं ज्ञातोऽस्म्यनेन गद इति / नागरिकः-किं विचारयसि / यदि सत्यं गदोऽसि ततो मोक्ष्यसे। पुरुषः- (स्वगतम् / ) नाहमनेन ज्ञातः / बिभ्राणो मुखबाहुवक्षसि कृतं पुण्डूत्रयं भस्मना __हस्तोपात्तविशुद्धताम्रकलशो रुद्राक्षमाली गले / धृत्वा वैदिकवेषमाविशमिह स्वस्वामिना प्रेरितो हृद्रोगोऽहमरेरवेक्षितुमना जीवस्य राज्ञः स्थितिम् // 1 // अनन्तरमनेन नागरिकेण संयमितः / भवतु / एवं ब्रवीमि। (प्रकाशम् / ) आर्य, मुञ्च माम् / विप्रश्निकतामुपजीव्येदं जठरहतकं पुष्णामि /