________________ 2 अङ्कः] जीवानन्दनम् / कर्णमूलः- . विज्ञानमन्त्रिमन्त्रैर्विविधैरसकृद्विधूतनिजशक्तिः / स ज्ञानशर्ममन्त्री तिष्ठति केवलमसौ स्वरूपेण // 37 // एवंविधविविधविचित्रचरित्रविस्मापितसकललोकस्य स्वामिहितकरणैकतानस्य मन्त्रिणः पारे खलु वाङ्मनसोश्चरितामृतानि / तथाहि / तत्तदुर्घटराजकार्यघटनाव्यापारपारीणया __ शक्त्या दुष्प्रसहस्य तस्य वचनैर्नानोपपत्त्यन्वितैः / निर्द्वन्द्वोऽपि स निर्गुणोऽपि च निराकारोऽपि निर्लेपनो ऽप्याः कष्टं प्रतिपक्षतामुपगतो जीवो विचेष्टेत नः // 38 // तस्मादेवंस्थिते प्रकृतिमण्डले दुर्भेये च शत्रुपक्षे महदत्याहितमापतिष्यति / (इति भयं नाटयति / ) पाण्डः-(विचिन्त्य / ) मा बिभिहि / तत्रापि काचिदस्त्यबाधिता नीतिः। कर्णमूल:-कीदृशी। पाण्डुः-श्रूयताम् / यच्चञ्चलं प्रकृत्या विषयेषु मनो निसर्गदुर्दान्तम् / तत्कामादिभिरेतैर्भेदयितुं शक्यते. शनकैः // 39 // तस्मिन्सविषयाधिष्ठाने मनसि स्वाधीने सुकर एव कार्यशेषः / किं च याः किलाद्यास्तत्र तिस्त्रः प्रकृतयस्तासु यस्तीक्ष्णोपायैः संयमितवृद्धिः श्लेष्मा तस्योपचयं केनाप्युपायेन विधाय तेनैव तावपि क्षोभयितुं शक्यते। विज्ञानोऽयं यद्यपि स्वामिभक्तस्तत्राप्यस्यासंनिधाने विविक्ते / भेदो राज्ञस्तस्य तैस्तैरुपायैः शक्यः कर्तु ज्ञानशर्मोपजापैः // 40 // एवं राजमन्त्रिणोर्विरोधेन विश्लिष्टे प्रकृतिमण्डलेऽचिरादेव हस्तगता महाराजस्य यक्ष्मणो जयलक्ष्मीः / कर्णमूलः-(सहर्षम् / ) साधु चिन्तिता मन्त्रिवर्येण राजतन्त्रनीतिः / पाण्डुः-भद्र, नाद्यापि महाराजनिकटगतोऽत्रायाति कासः / (प्रविश्य) गलगण्ड:-देव, महाराजपादमूलात्कासः प्राप्तः / पाण्डुः त्वरितं प्रवेशय।