________________ 2 अङ्कः] . जीवानन्दनम् / 27 पाण्डुः-(स्वगतम् / ) वायुसंचार्यमाणं कफपित्तयोयुगं तद्भवेत् / (प्रकाशम् / ) ततस्ततः / कर्णमूलः–तस्मादन्तःपुरचारिणः पङ्गुयुग्मात्तत्संचारयतः पुरुषाच्च प्रवृत्तिरुपलब्धुं शक्येति तच तं चोपासर्पमहम् / स च तच्च मयि दृष्टमात्रे भद्र गच्छ परिसर्प मा कुतो देशतस्त्वमसि नन्विहागतः / कस्य वा वद परिग्रहो भवानित्यपृच्छदथ सोऽपि तच्च माम् // 27 // भो भो भद्रमुखाः परिग्रहतया कस्यापि नाहं स्थितो ___रात्रि नेतुमिहागतोऽस्मि नियतं सायाहि भिक्षामटन् / स्थानं मे यदि शक्यतेऽपगतये प्रान्त(?)स्तदादीयता___ मित्युक्ते तु मया तदन्तरुदभूदन्योन्यमालोचना // 28 // अनन्तरं च कार्यान्तरव्यापृते च राजनि नूतनपुरुषपरिमार्गणपरे च नागरिके, भिक्षो, रात्रौ नावसरस्त्वादृशामत्र शयितुमित्युक्तवत्सु तेषु, क्व कार्ये राजा व्याप्रियते कुत एवं भिक्षुकाणामप्युपरोध इति पृष्टवानस्मि / पाण्डुः-ततस्ततः / कर्णमूलः–तेऽपि मां भद्रेत्यामन्त्र्य समकथयन् / पुण्डरीकपुरे मन्त्रिप्रेरितः परमेश्वरम् / आराद्धं गतवान्राजा मनोद्वारेण तिष्ठति // 29 // किं च। शत्रुनिरुद्धे च पुरे परिसर्पाशङ्कया नगरगुप्त्यै / नागरिकशिक्षणमिति प्रावोचन्मां तदानीं ते // 30 // अत्रान्तरे विजृम्भमाणं यामिककलकलमशृणवम् / श्रुत्वा च कथंचिलब्धावकाशः स्वामिकार्यगौरवादागतोऽस्मि / पाण्ड:-(आकाशे लक्ष्यं बद्धा सोपहासम् / ) रे रे मन्त्रिहतक, अस्मज्जयार्थ सहजवैरिणं रसं साधयितुं किल तव प्रयत्नः / तर्हि पश्य। साधितोऽपि स किं कुर्याद्रसः पथ्यक्रमं विना / निवाचापलमुद्भाव्य स एव ध्वंसयिष्यते // 31 // आराद्ध गतमा