________________ काव्यमाला। समुद्यन्निःधासप्रसरपरिशुष्काधरपुटो विलङ्घयाहं दीर्घा सरणिमगमं पाण्डुसविधम् // 25 // (पाण्डुं दृष्ट्वा / ) कुमार, विजयी भव / पाण्डुः-भद्र, किम् / किंचिदुपलब्धं तत्र भवता प्रविष्टेन / कर्णमूल:-किं सफलो न भविष्यति कुमारनियोगो विशेषोपलम्भेन / पाण्डुः कथय / कर्णमूलः-श्रूयताम् / उपरुद्धमस्मत्सैनिकैः पुरम् / .. पाण्डुः–किमेतत्परिज्ञानाय प्रेषितोऽसि / विदितं खल्विदं सर्वेषाम् / कर्णमूलः- (सर्वतो विलोक्य / ) एतदेव प्रस्तोतुमयमवसरः / पाण्डुः–विस्रब्धं कथय / किं न जानासि अस्मच्छरीराण्येव कीलैते / कर्णमूलः-देव, भवदाज्ञया प्रविष्टोऽस्मि पुण्डरीकपुरम् / तत्राद्राक्ष च सन्निरीक्षणैकपरे ईक्षणे / निगमार्थश्रवणप्रसिते श्रवसी। शिवनिर्माल्यगन्धसंतर्पितं घ्राणम् / विघसामृतास्वादनैकतानां रसनाम् / त्रेताभस्मावगुण्ठितां त्वचम् / धर्मार्थसंग्रहीतारौ करौ / तदर्थ कृतसंचरणौ चरणौ / चिरंतनसरस्वतीचिकुरपरिमलामोदसदनं वदनं च / तदर्शनेन क्वचिदपि स्थलमलभमानः स्थातुमपि नाशक्नुवम्, किं पुनर्देवस्याज्ञां परिपालयितुम् / कुष्ठः-(विहस्य / ) अनासारवर्षणमजागलस्तनसमवस्थं तव गमनागमनं च / संनिपातः--कुष्ठ, सावशेषमिव तव वचनम् / कुष्ठः-स्वामिपोषितस्वकलेवरनिरर्थकता च / कर्णमूलः--जाग्रति मच्छिरसि महाराजपादपङ्कजरेणौ कथमेतद्भविष्यति / पाण्डुः-ततस्ततः / कर्णमूलः-ततश्च / तस्मिन्पुरे स्थानमहं विवेक्तुं चरन्समन्तात्क्वचिदप्यपश्यम् / त्रिप्वाशयेषु स्थितिमत्स्वशङ्कं संचारितं केन च पङ्गुयुग्मम् // 26 //