________________ 2 अङ्कः] . जीवानन्दनम् / पाण्डुः-(सबहुमानम् / ) अतिसारा इति स्पष्टं विष्टपत्रयविश्रुतम् / युष्मन्नामैव युष्माकं ब्रूतेऽतिशयितं बलम् // 22 // गुल्मप्लीहानः श्रूयतां स्वामिना। अस्मासु प्रविशत्सु शात्रवपुरं पीडाकरेषु द्रुतं कार्याकार्यविवेक एव न भवेदल्पोऽपि तस्मिन्क्षणे / आस्तामेतदिदं वचो निशमय क्षन्तुं व्यथामक्षमो विज्ञानेन च मन्त्रिणा सह पुराज्जीवः पलायिष्यते // 23 // पाण्डुः-अस्मत्सैनिकोपरुद्धे पुरे पिपीलिकापि न प्रसरीसरीति, कुतः पुनरियं तस्य पलायनशङ्का / परंतु सर्वैरिदमाकर्णनीयम् / नीतिशास्त्रानुसारिणि मत्रिणि तदनुरक्ते विक्रमाभिमानरक्षणैकपरे द्विजदेवपोषणैकतानमानसे राजनि तस्मिन्निपुणं किमपि प्रतिविधानमनुसंधेयम् / अंतः प्रागेवातर्कयं किंचिदत्याहितहेतुस्तदीयान्तर्मुखतेति / . कुष्ठेष्वेकः-(स्वगतम् / ) प्रागस्माभिः प्रेषितः शत्रुशिबिरं प्रविष्टः कर्णमूलोऽद्यापि नागतः किं तैर्गृहीतः स्यात् / - (ततः प्रविशत्यध्वश्रांन्तः कर्णमूलः / ) कर्णमूल:-(दृष्ट्वा / ) एतत्खलु तत्तत्कार्यनिवेदनार्थमिलितान्योन्यानभिज्ञस्पेश प्राप्तव्यावसरप्रतीक्षणकृतद्वाःपार्श्ववेद्यासिकम् / अन्तर्मन्दिरनिःसरज्जनवचोविज्ञाप्यमानप्रभु.. व्यापारश्रवणेप्सुबाह्यमनुजं पश्यामि पाण्डोहम् // 24 // (द्वाःस्थं प्रति / ) गलगण्ड, कथय कर्णमूलं संप्राप्तं माम् / (गलगण्डः प्रविश्य निष्क्रम्य कर्णमूलेन सहान्तः प्रविशति / ) कर्णमूल:-(आत्मानं दृष्ट्वा स्वगतम् / ) श्रमाम्भःसंसिक्तालिकललितपुण्ड्राङ्कवदनो द्रवञ्चर्मोपानदृढपिहितपार्थाञ्चलपटः / - 1. स्पशश्वरः.