________________ 2 अङ्कः] . जीवानन्दनम् / (गलगण्डं प्रति / ) स्वामिनः कुमारस्य संनिधि प्रापय सर्वानपि सैनिकान् / गलगण्डः–तथा / (इति निष्क्रम्य सर्वैः सह प्रविशति / ) (सर्वे पाण्डुं प्रणम्य प्राञ्जलयस्तिष्ठन्ति / ) . पाण्डुः-एवं प्रवृत्ते राजकार्ये किं भवन्तो मन्यन्ते / तत्रादौ कुष्ठाःकार्या न चेतसि कुमार कदापि चिन्ता स्थास्यन्ति के वद पुरः प्रतिगर्जतां नः / शत्रोः प्रविश्य पुरमीक्षितुमप्ययोग्यं कुर्मो वयं तनुभृतामतिकुत्सनीयम् // 14 // उन्मादाः-सर्वे सैनिकास्तिष्ठन्तु / ज्ञायतामस्माकमभिप्रायः / कोपाध्मातककुत्स्थपुंगवकरव्याकृष्टगर्जद्धनु ानिर्गत्वरमार्गणानलशिखादीने नंदीने भृशम् / पाठीनान्कमठैः सुमं विलुठतः सर्वेऽनुकुर्वन्तु ते शार्दूला इव शम्बरान्सरभसं.यानद्य गृह्णीमहे // 15 // वणाः-खामिन्कुमार, प्रथमं पुरमेव वाधितव्यम् / तद्बाधया शिथिलीभविष्यत्यन्तर्मुखतापि जीवस्य / अत इदानीम् ' प्रचण्डमदपाण्डवप्रहितकाण्डवर्गत्रुट___ तरक्षुकरिकेसरिप्रियकशल्यशार्दूलकम् / अरण्यमिव खाण्डवं घनसरण्यतीतं द्रुम ब्रजं दहनहेतयः पुरमरेर्दहामो वयम् / / 16 / / सर्वेऽपि अर्शीभेदाः-स्वामिन्, यदुक्तं व्रणैस्तदस्मभ्यमपि रोचते / तेन वयं च निरुद्धमूलद्वाराः / गृह्णीयाम व्यथयितुमरेस्तत्पुरं येन सर्वे - व्याघ्राकृष्टा इव हि पशवः प्राणिनोऽसद्गहीताः / सा 1. समुद्रे. 2. मृगभेदान्.