________________ जीवानन्दनम् / इत्थं श्वासविलासिनीरुपगताः पञ्चापि हिक्वाः सुखी___कृत्य द्रागुपसान्त्व्य पाण्डुदयिता मां प्राहिणोत्कामला // 7 // तत्थ वि मन्दभाइणी अहं हदमणोरहा जादेत्ति / (क) कासः-(विचिन्त्य / ) मा बिभेहि / ज्ञातस्तव भावः / त्वयि प्रणयस्य भङ्गे कण्ठकण्ड्डा यत्नः क्रियत इति गच्छामि तत्रैव तानपि वशीकुर्याम् / तेऽपि मद्बुद्ध्यैव पुष्टाः कथं मह्यं द्रुह्येयुः / छर्दिः-गच्छेहि कजसिद्धीए अहं वि देईए सकासं गमिस्सम् / (इति निष्क्रान्तौ / ) प्रवेशकः / (ततः प्रविशति रहस्यागारस्थः सुप्तोत्थितः सचिन्तः पाण्डुः / ) पाण्डु:-कः कोऽत्र भोः / (प्रविश्य) दौवारिकः-विजयतां देवः / / (पाण्डुनिंद्रालसो जृम्भते / ) दौवारिकः-(आत्मगतम् / ) एष किल. आरक्तसंकुचदपाङ्गमुददंष्ट्रं व्यादाय वक्रमुरुपाटलदीर्घजिह्वम् / उच्चैर्भुजौ वलयितौ ग्रथिताङ्गुलीको / कुर्वन्सशब्दमिह जृम्भणमातनोति // 8 // अपि च / . . जृम्भावसरे दारुणमाननबिम्बं सजिह्वमेतस्य / निपतितदीर्घकपाटं पातालद्वारमिव हि पश्यामि // 9 // प्रकाशम् / ) देवस्य कीदृशो मयि नियोगः / पाण्डुः-गलगण्ड, सेनापतीनाहूय मम निकटं प्रवेशय / (गलगण्डो निष्क्रम्य त्रयोदशप्रकारान्सनिपातान्प्रवेशयति / सर्वे प्रविश्य प्राञ्जलयस्तष्ठन्ति / ) (क) तत्रापि मन्दभागिन्यहं हतमनोरथा जाता।