________________ काव्यमाला। गच्छीअदु / णाह, पञ्च वि तुह वअम्मा सासा सेवातप्परा तह जेव्व वट्टन्दि / (क) कासः-कथमिदं ज्ञातं त्वया / छर्दिः-तुह पुत्वगिहिणीए कण्ठकण्डूए परिदेवणमुहेण देइए विसूचीए संणिहाणे सव्वं राअकजं णिवेदिदम् / तहिं संणिहिदथम्भन्तरिदाए मए सुदम् / (ख) कासः कुतः कीदृशं च परिदेवनं तस्याः / छर्दिः-जं तुए मं कामअन्तेण पुत्वगिहिणीए ताए पणअभङ्गो किदो तेण कादव्वं परिदेवणं क्खु ताए / तह खु कण्ठकण्डू देवीए कहिदवदी जं किल भट्टिणि, एदं मह दुज्जादं पण्डुगिहिणीए णिवेदिदं गदम्हि / सा उण कालन्तरे एवं होदुत्ति जह तह मह अस्सुप्पमजणं किदवदी / तं जह-(ग) (स्मरणमभिनीय सभयम्, संस्कृतमाश्रिन्य / ) अस्यात्याहितकर्मणो व्यपगमे कासेन भर्ना समं संधास्येत्यवती (2) तु तत्प्रियसखान्संप्रेषयन्ती रहः / (क) युवराजेन पाण्डुना विदितं न वेति नास्ति संदेहः / येनैतदेव श्रुत्वा सकलसामन्तचक्रेण सह सिद्धसैनिको रहस्यागारे निद्राभङ्गकषायितलोचनश्चिन्तापर्याकुलो युवराजस्तिष्ठति / त्वयापि तत्र गम्यताम् / नाथ, प. ञ्चापि तव वयस्याः श्वासाः सेवातत्परास्तत्रैव वर्तन्ते / (ख) तव पूर्वगृहिण्याः कण्ठकण्डूयाः परिदेवनमुखेन देव्या विषूचिकायाः संनिधाने सर्व राजकार्यं निवेदितम् / तत्र संनिहितस्तम्भान्तरितया मया श्रुतम् / (ग) यत्त्वया मां कामयमानेन पूर्वगृहिण्यास्तस्याः प्रणयभङ्गः कृतस्तेन कर्तव्यं परिदेवनं खलु तया / तथा खलु कण्ठकण्डुर्देव्यै कथितवती यत्किल भट्टिनि, एतन्मम दुर्जातं पाण्डुगृहिण्यै निवेदितुं गतास्मि / सा पुनः कालान्तरे एतद्भवत्विति यथा तथा ममाश्रुप्रमार्जनं कृतवती / तद्यथा /