________________ जीवानन्दनम् / कासः-(विहस्य / ) छर्दिका किल त्वं प्रकृत्या / तत्कुतो न प्रकाशयसि / / __ छर्दिः--(विहस्य / ) भसणसीलस्स कुक्कुरस्स विअ तुह जाआ अहम् / होदु / एदं कहेहि पत्थुदम् / (क) __कासः-(स्वगतम् / ) इयं राजकार्यकथननिर्बन्धान्न मुञ्चति माम् / का गतिः / (प्रकाशम् / ) हले, कथयामि / शृणु तावत् / छर्दिः-ओहिदम्हि / (ख) कासः-मया कटकप्रवेशः कर्तव्यो युवराजस्य पाण्डोर्दर्शनाय / छर्दिः–ता किं विचारीअदि / अम्हकेरंभडकन्ते सुगमो सत्तुणो पुरे मग्गो तुज्झ / सान्दणक्खत्ते णहे इन्दुणो विअ / (ग) कास:-त्वं पुरोपरोधमात्रं जानासि / तत एवं ब्रवीमि / छर्दि:--किं अण्णं वि तत्थं कडए पउत्तं जं मए ण जाणीअदि। (घ) कासः-श्रूयताम् / अस्मत्सैन्यनिरोधं कृतमगणयता वे पुरे सूपदिष्टं जीवोऽमात्येन योगं स किल निशमयन्प्रापदन्तर्मुखत्वम् / इत्यस्माकं निशम्य प्रभुरतिविशदं चारवक्रात्कुमारं ___ गत्वा पृच्छ त्वयेदं विदितमथ न वेत्याकुलः प्राहिणोन्माम् // 6 // छर्दिः-जुवराएण पण्डुणा विदिदं ण वेत्ति णत्थि संदेहो / जेण एदं एव्व सुणिअ सअलसामन्तचक्केण सह सिद्धसेणिओ रहस्सागारे णिद्दाभङ्गकसाइदलोअणो चिन्तापजाउलो जुवराओ चिट्ठदि / तुए वि तत्थ (क) भषणशीलस्य कुकुरस्येव तव जायाहम् / भवतु / एतत्कथय प्र- स्तुतम् / (ख) अवहितास्मि / (ग) तल्कि विचार्यते / अस्मदीयभटाक्रान्ते सुगमः शत्रोः पुरे मार्गस्तव / सान्द्रनक्षत्रे नभसि इन्दोरिव / (घ) किमन्यदपि तत्र कटके प्रवृत्तं यन्मया न ज्ञायते /