________________ काव्यमाला। कास:-मुञ्च मुञ्च / (इति हस्तं धुनोति / ) छर्दिः-(दृढं हस्तमवलम्ब्य / ) हदास, मह पडिण्णादं दाऊण गच्छे. हि / (क) कासः-हजे, यावदागत्य दास्यामि / छर्दिः-कुदो आगमिअ / (ख) कासः-धिमूर्खे, नायमवसरः / पश्चात्कथयिप्यामि / छर्दिः-जइ दाणिं ण कहेसि अहं वि ण मुञ्चेमि / (ग) . कास:---तर्हि गृहाण मुक्ताफलस्य प्रतिनिधिमिमामूमिकाम् / (इत्यङ्गलीयकं विमुच्य प्रयच्छति / ) छर्दिः-इदं होदु / कुदो आगमिअ त्ति कहेहि / (घ) कासः-किं मम वधमिच्छसि / यतः। ___ कार्य राज्ञां मन्त्रिभिर्मन्त्रितं यत्सर्वेषां तत्सर्वथा गोपनीयम् / . येऽभिव्यञ्जन्त्येतदुद्यत्प्रमादाः शीर्षच्छेद्यांस्तन्वते तान्नरेन्द्राः // 4 // छर्दिः-जह तह होदु / एदं दाव कहेहि / (ङ) कासः-(स्वगतम् / ) अहो दास्याः स्नेहपरिपाकः / यः परमनाय संपद्यते / तथा हि / स्त्रियः स्वार्थपराः प्रायः परदुःखं न जानते / __ अप्रष्टव्यं यदप्राक्षीद्गहिणी कैकयाधिपम् // 5 // (प्रकाशम् / ) राजकौलीनमेतदिति न कथयामि / मुञ्च / (इति त्वग्यति / ) छर्दिः---मा भयाहि तुमं / जं मञ्जसा क्खु अहं राजकज्जाणं / अदो ण पआसेमि / (च) (क) हताश, मम प्रतिज्ञातं दत्त्वा गच्छ / (ख) कुत आगत्य / (ग) यदीदानीं न कथयसि अहमापे न मुञ्चामि / (घ) इदं भवतु / कुत आगत्येति कथय / (ङ) यथा तथा भवतु / इदं तावत्कथय / (च) मा बिभेहि त्वम् / यन्माषा खल्वहं राजकार्याणाम। अतो न प्रकाशयामि /