________________ 2 अङ्कः] जीवानन्दनम् / द्वितीयोऽङ्कः / (ततः प्रविशति चेट: कासः / ) कासः-अहं खलु स्वमन्त्रिहतकोपदिष्टं किमपि रहस्यं शृण्वञ्जीवो नाम प्रतिराजा स्वस्मिन्किमपि चेष्टितुमन्तर्मुखस्तिष्ठतीति चारमुखादवगतवता संभ्रान्तेन महाराजेन यक्ष्मणा किमयं वृत्तान्तः श्रुतस्त्वया न वेति युवराज पाण्डं पृष्ट्वागच्छेति प्रेषितोऽस्मि / अतस्त्वरन्नितो युवराजसमीपं गच्छामि / अहो महाराजस्य युवराजे महती प्रीतिः / यतः / यद्यज्ज्ञातं स्वयं तत्तद्युवराजोऽपि वेत्ति चेत् / / तदा राज्याधिकारेऽस्य शक्तिः स्यादिति मन्यते // 1 // (पार्श्वतो विलोक्य / ) कथमियं छर्दिः / यैषा . प्रवालमृदुलाधरप्रकरचारुबिम्बप्रभा हृताहृतविलोचनाञ्जनविशेषदृश्यानना / मयूरपदकस्फुरत्कठिनतुङ्गपीनस्तनी तरङ्गयति कौतुकं तरुणिमश्रिया चेतसि // 2 // (स्मरणमभिनीय।) श्लथजलधरजालश्लिष्टशीतांशुबिम्बा__नभिनवमुकुराविर्भूतमुक्ताकदम्बान् / दरतरलितचक्रद्वन्द्वखेलन्मृणाला विवशहृदयमस्या विभ्रमानन्वभूवम् // 3 // (सभयम् / ) तदियं मामवलोकयति चेदिदानी विभ्रममूल्यमनुपयुज्य मां निरुन्धीत ततो गमनविघ्नः स्यात् / (इत्युत्तरीयपटेन मस्तकमवगुण्ठयन्नन्यतो गच्छति / ) ___(प्रविश्य) छर्दिः-अए सठ, रत्तिम्मि मुत्ताफलं परिपणीकदुअ पुरुसाइदं मए कारविअ दाणि मं पेक्खिअ ओगुण्ठितसीसो बद्धकटी कुदो पलाएसि / (क) (इति कासं हस्ते गृह्णाति / ) (क) अये शठ, रतौ मुक्ताफलं परिपणीकृत्य पुरुषायितं मया कारयित्वा इदानीं मां प्रेक्ष्यावगुण्ठितशीर्षो बद्धकटिः कुतः पलायसे /