________________ काव्यमाला। मन्त्री-पुण्डरीकपुरं प्रविश्य / देवी-कहं तत्थ पवेसो / (क) मन्त्री-देवि, शक्यं तत्खलु पुण्डरीकनगरं गन्तुं मनोद्वारत__स्तत्रास्ते शिवभक्तिरित्यनुपमा कापि प्रमोदास्पदम् / दृष्ट्वा तां प्रथमं तथा परिचयस्तस्या विधेयस्त्वया चत्वारोऽपि भवन्ति ते करतलं प्राप्ताः पुमा यथा // 47 // राजा—(सोत्कण्ठम् / ) तामद्वैतां स्वरूपेण भक्ति हृदयरञ्जिनीम् / स्वीकृत्याहं भविष्यामि प्राप्ताखिलमनोरथः // 48 // देवी-(सासूयमिव स्वगतम् / ) कहं सव्वपुरुसत्थप्पसवित्तिआ सेत्ति सुणिअ सुदघणाघणगजिदो मोरो व्विअ उक्कण्ठिदो अजउत्तो / होदु / ता मए वि सह गन्तब्वम् / (प्रकाशम् / ) अजउत्त, अहं वि आगमिस्सम् / (ख) राजा-(स्वगतम् / ) कथमनयाप्यागन्तव्यम् / (विचिन्त्य / ) भवतु / (प्रकाशम् / ) अयि भद्रे, भक्तिपराधीनं साम्बमुपास्यावामभिलषितमर्थ साधयावः / (मन्त्रिणं प्रति / ) राज्यं त्वयि समारोप्य योग्ये सर्वाङ्गसंहितम् / देव्या सह शिवं साम्बमुपास्तुं यामि तत्पुरम् // 49 // मत्री-यथा रोचते देवस्य / (इति निष्क्रान्ताः सर्वे / ) . इति प्रथमोऽङ्कः / (क) कथं तत्र प्रवेशः। (ख) कथं सर्वपुरुषार्थप्रसवित्रिका सेति श्रुत्वा श्रुतघनाघनगर्जितो मयूर इवोत्कण्ठित आर्यपुत्रः / भवतु / तन्मयापि सह गन्तव्यम् / आर्यपुत्र, अहमप्यागमिष्यामि।