________________ 1 अङ्कः] . जीवानन्दनम् / भक्तिप्रहमहेन्द्रमुख्यमखभुक्प्रारब्धभूरिस्तव * प्रादुर्भावितनिर्भरप्रमदया कारुण्यभाजा यया / निद्राभङ्गमवापितेन हरिणा दीप्तौजसा घातया ___ मासाते मधुकैटभावतिबलौ सा केन वा वर्ण्यते // 43 // मत्री-राजन् , तथ्यमेवाह भवान् / अस्याः किल भक्तवात्सल्यमनन्यतुल्यं पश्यामि / दूरोद्भूतविषाणकोटिघटनाचूर्णीकृताम्भोधरं प्रेसत्पादचतुष्टयीखुरपुटप्रक्षुण्णपृथ्वीतलम् / कल्पान्ताभ्रकठोरकण्ठनिनदत्रस्तत्रिलोकीजनं विक्रान्तं महिषासुरं युधि पुरा चिच्छेद शूलेन या // 44 // देवी-सा खु परमेसरी बहुविहदेवआसत्तिरूआवअवा पअण्डपरक्कमखण्डिअचण्डमुण्डधुम्मलोअणरत्तबीजप्पहुदिदाणवमण्डला सुणीअदि चण्डिआणामधेएत्ति / (क). राजा-तदपि ज्ञायते / यथा खलु। शस्त्रच्छिन्नसुरारिसैन्यपिशितग्रासग्रहप्रीतिम त्कङ्कक्रोष्टरि संगरे सुरवधूमुक्तप्रसूने स्थितम् / देव्या शुम्भनिशुम्भदानववधप्रक्लिन्नचित्तस्तुव द्रुद्रेन्द्राग्निकृतान्तनैर्ऋतजलाधीशानिलश्रीदया // 45 // मत्री-राजन्, एवं भक्तवत्सलयोरनादिदंपत्योरुपासनया संपादनीया सिद्धिः / किं च। सामर्थ्यसिद्ध्यै रसगन्धकानां संयोजनार्थ सकलौषधीश्च / संपादयामोऽथ तदाश्रितस्य सर्वोषधीशस्य विधोः प्रसादात् // 46 // देवी-कदमं उण देसं पविसिअ उवासणिज्जा एदे / (ख) (क) सा खलु परमेश्वरी बहुविधदेवताशक्तिरूपावयवा प्रचण्डपराक्रमखण्डितचण्डमुण्डधूम्रलोचनरक्तबीजप्रभृतिदानवमण्डला श्रूयते चण्डिकानामधेयेति / (ख) कतमं पुनर्देशं प्रविश्योपासनीयावेतौ।