________________ काव्यमाला। मार्कण्डेयं व्यतनुत यदा सर्वभूतैस्तदादि __ स्तुत्यं मृत्युंजय इति यशः स्फारमीशः प्रपेदे // 40 // राजा-पुरा खलु देवदानवैरमृतार्थिभिर्महोरगयोकपरिवेष्टितविकृष्यमाणमन्दरमन्थानदण्डैर्मथ्यमाने दुग्धसागरे गरलमुद्भटमुत्थितमसहमानेषु भुवनेषु विनष्टप्रायेषु पलायनाभिमुखे चतुर्मुखे विगलितौजसि बिडौजसि भगवानेवैष विषमश्नन् जगदनुचकम्पे / तथाहि / मेघाक्रान्तदिगन्तदर्शरजनीमूर्छत्तमोमेचकं ___ तापद्रावितदेवदानवनरं यः कालकूटं गरम् / जग्ध्वा जम्ब्विव बालकस्त्रिभुवनत्राणं ततानाञ्जसा ___तस्य द्राङ्महिमा न वाङ्मनसयोः पन्थानमारोहति // 41 // मत्री-किमुच्यते महिमेति / श्रूयतां तावत् / त्रिपुरविजयप्रसक्तावसक्त इव स्वयं तदर्थ कतिचित्साधनानि संपाद्य तान्यपि वितथीकृत्य स भगवान्निजमेव महिमानमभिव्यक्तवान् / तथाहि / सूर्याचन्द्रमसौ रथाङ्गयुगलं सूतो विधाता स्वयं रथ्याश्वा निगमाश्च यस्य रथमारूढेन भूमीमयम् / मेरुं धन्वविषक्तवासुकिगुणं कृत्वा शरं चाच्युतं तिस्रस्तेन पुरः स्मितेन तु परं दग्धाः सुरद्वेषिणाम् // 42 // राजा-एवमपरिमितान्याश्चर्यचरितानि देवस्य / देवी-किं अच्चरिअं / महेसरस्स जह जह जारिसो उपासनं करेदि तह तह तारिसं सो तं तं फलं पावेदि / (क) मत्री-एवमेतत् / राजा-एवमनिर्धारणीयनानास्वरूपा भगवतीपरमेतत् / परंतु भगवतो दयारूपैवेयम् / अत एव लोकरक्षणार्थी प्रवृत्तिरेतस्याः / श्रूयतां तावत् / (क) किमाश्चर्यम् / महेश्वरस्य यथा यथा यादृश उपासनं करोति तथा तथा तादृशं स तं तं फलं प्राप्नोति /