________________ 1 अङ्कः] . जीवानन्दनम् / धवलमुपरिं भर्तुश्चामरं धूयमानं * विरमयति करेण व्यक्तमाकर्णनाय // 38 // (प्रकाशम् / ) श्रोतव्यमिदं धारणावचनम् / यक्ष्महतकः पुरान्निष्क्रामणमेवास्माकमिच्छतीति / राजा-किमत्र प्रतिविधातव्यम् / देवी-(सोद्वेगम् / ) दाणिं किं कुम्भो / (क) मन्त्री देवि, मा भैषीः / प्रतिविधानप्रकारोऽपि धारणया विदितः / राजा-कथमिव / मत्री-(कर्णे) एवमेवम् / . राजा-कथमिदं धारणया निर्धारितम् / . मत्री-रसगन्धकप्रयोगमन्तरेण सपरिवारोऽहमजय इति यक्ष्मराजस्य हृदयं विश्वसनीयया तापसीवेषया धारणया गृहीतम् / .. देवी-(साश्वासम् / ) जइ एव्वं ता कहं अह्मेहिं रसगन्धआ संपादणिज्जेत्ति / (ख) . राजा शंभोर्वीय रसो नाम शर्वाण्या नाम गन्धकः / ताभ्यामेव प्रसन्नाभ्यां तौ ग्राह्याविति मे मतिः // 39 // देवी–केण उण उवाएण ताणं पसादो संपादणिजो / (ग) मत्री-उपासनयैव / . राजा–युक्तमुक्तं भवता / श्रूयते हि पुरा मृकण्डुरुमापतिमुपास्य पुत्रं लेभे / तत्पुत्रोऽपि तदुपासनया मृत्युमुखान्मुक्तो दीर्घमायुरलभतेति / मत्री-सम्यगवगतं महाराजेन / यतः खल्वेष - पादाघातत्रुटितयमुनाभ्रान्तबाह्वन्तरोद्य__द्रक्तस्रोतः समुपशमिताशेषशोकाश्रयाशम् / (क) इदानी किं कुर्मः। (ख) यद्येवं तत्कथमस्माकं रसगन्धको संपादनीयौ इति / (ग) केन पुनरुपायेन तयोः प्रसादः संपादनीयः /