________________ काव्यमाला। वादित्रध्वनिमण्डलीकृतगरुद्वहीं नटत्यङ्गणे देव त्वं विजयीभवेति गुणयन्नास्ते शुकः पञ्जरे // 35 // (प्रविश्य / ) दौवारिका-(मन्त्रिणं प्रति / ) स्वामिन् , भवन्तं द्रष्टुं बुद्ध्या सह देव्या भद्रासनमधिवसति राजा। मत्री अतिपरिचयेऽपि राज्ञो बिभेमि सहसोपगन्तुमभ्यर्णम् / .. येनाग्नेरिव तेजः स्फुरदस्यारान्निवर्तयति // 36 // (विचिन्त्य / ) परपक्षं प्रति प्रतिविचारणाय प्रेषितां धारणां प्रतीक्षमाण इव लक्ष्यते / भवतु तदेतदहं वक्ष्यामि / ___ (ततः प्रविशति बुझ्या देव्या सह राजा जीवः / ) मत्री-(उपसृत्य / ) विजयतां महाराजः / राजा-इतो निषीदतु भवान् / (इति मन्त्रिणे आसनं निर्दिशति / ) मन्त्री—(आसने उपविश्य स्वगतम् / ) एष खलु गण्डूषोदकशोधितेऽपि वदने ताम्बूलरक्ताधरः स्नानापोहितचन्दनेऽपि वपुषि प्रोद्दामतत्सौरभः / निर्णिक्ते सिचये धृतेऽपि कनकाकल्पेन पीताम्बरः सोऽयं सत्यपि न प्रमाद्यति सदाचारांदतिप्राभवे // 37 // (प्रकाशम् / ) महाराजेन प्रहिताया धारणाया मुखात्तत्रत्यः सर्ववृत्तान्तो विदित एव / सा पुनर्दुर्जनसंसर्गदोषपरिहाराय नदी स्नातुं गता / तया च मयि संक्रमितस्तत्रत्यवृत्तान्तः / राजा-(सोत्कण्ठम् / ) कथमिव / देवी--अहं वि अवहिदमि / (क) मन्त्री (स्वगतम् / ) इयं हि देवी किमपि नियमिताप्रैः कुन्तलैः स्निग्धनीलैः परिलसदपराङ्गा धारयन्ती दुकूलम् / / (क) अहमप्यवहितास्मि /