________________ 1 अङ्कः] जीवानन्दनम् / धारणा-(स्वगतम् / ) एसो अत्तकेरअस्स पहुणो अमच्चो / ता पहुजअविषअणीए मन्तविचारसिद्धीए परपक्खबलहिदि एदस्स जेव्व कहइस्सम् ।(क) (प्रकाशम् / ) सर्वरोगराजो यक्ष्मा निष्प्रतीकार इति सर्वजनविदितमेतत् / शृणु तावत् / परीवारा एतस्य रोगविशेषा भीमरूपा बहवः / तथाहि / ज्वरपाण्डुप्रमेहार्शः शूलगुल्मभगंदराः। कासश्वासावतीसारसंनिपाताश्मरीत्रणाः // 26 // किं च / रोगा मूर्ध्नि शतं चतुर्नवतिरेवाक्ष्णोस्तथा नासिकां प्रत्याष्टादश कर्णयोरपि तथा वक्रे चतुःसप्ततिः / पञ्चैवं हृदि किं च सन्ति बहवः सर्वेऽप्यमी दुस्तराः प्राप्तौ कल्ककषायलेह्यबटकप्रायौषधानामपि // 27 // तस्मादुर्जयो युष्माभिः / मन्त्री--(स्वगतम् / ) इयं किल भीत्या निसर्गकातरा प्रबलपरबलप्रवेशहृदया मदीयप्रभावमजानती स्वबुद्ध्यनुरूपं किमपि प्रलपति / भवतु / किमनया वृथा संवादकदर्थनया / प्रस्तुतकार्यसाधनार्थमिमां तावदन्तरयामि / (प्रकाशं सोपहासम् / ) आलोक्य शात्रवबलं बहुधारणे त्वं भीतासि संप्रति रसं प्रतिपन्नधैर्या / जीवस्य जीवितसमे मयि सत्यमात्ये .... भूयात्कथं बत विरोधिशिरोधिरोहः // 28 // धारणा-(विहस्य / ) कथं जाणिदह्मि अमच्चेण / ता कहेमि विस्सद्धं जहत्थं सुणादु अमच्चो / अहं खु देईए बुद्धीए सहअरी रण्णा जीवेण तावसीवेसं करिअ रत्तिम्मि पुरं पविसिअ जक्खराअस्स विआरणीओ व (क) एष आत्मीयस्य प्रभोरमात्यः / तत्प्रभुजनविषयिण्या मन्त्रविचारसिद्धेः परपक्षबलस्थितिमेतस्यैव कथयिष्यामि /