________________ काव्यमाला। धारणा-(ध्यानाद्विरम्य सस्मितम् / ) जीवस्य राज्ञो मन्त्री विज्ञानशर्मा भवान् / मत्री-महाप्रभावा योगसिद्धिमती भवती / तथाहि / / बुद्ध्या महत्या कृतसाहचर्या देवे निजे दर्शितभूरिभक्तिः / परप्रवृत्ति विदती महिम्ना साधारणा त्वं त्वहिते हिते च // 24 // धारणा-(स्वगतम् / ) किं जाणिदं म्हि अमच्चेण जहत्थणामधेएण जं तावसीवण्णणव्वाजेण अहं जेव्व वण्णिदा। होदु / एव्वं भणामि / (प्रकाशम् / ) महान्खलु योगप्रभावः / (क) मत्री-भगवति, तव न किंचित्प्राणिनामन्तर्गतमविदितमस्ति / अतस्त्वां प्रार्थये / कथमस्माकं राजनि यक्ष्मा मन्यते / योगिन्यास्तव दुःखितेषु कथमेषां दुःखविमुक्तिः स्यादिति चित्तपरिकर्मविशेषः करुणा भवत्येव / योगाङ्गेषुः यमेषु वाङ्मनसयोर्यथार्थत्वरूपः सत्यं नाम द्वितीयो यमोऽपि तथा / अत इदं निर्विशङ्क प्रार्थनापूर्व पृष्टासि / धारणा—(स्वगतम् / ) जक्खराजपक्खवादविसेसे वि जोइणीए पुच्छिदस्स जहत्थुत्तरं अभणिअ असकं ठाएं त्ति मण्णइ अमच्चो / (प्रकाशम् / ) किमन्यत् / पुरान्निष्क्रमयितव्योऽयमिति मन्यते / (ख) / मत्री-कथमेतदेतस्य संघटते सामादिषु चतुषूपायेष्वेकैकस्यापि प्रयोगेण सुसाधो हि रिपुमनोरथभङ्गः / / धारणा--नन्विमं दुष्करं पश्यामि / यक्ष्मणि विभौ प्रयोगं घटयन्ति न सामभेददानानि / दण्डः प्रभवेन्नु कथं प्रबलतरे रिपुजने स्वस्मात् // 25 // मत्री-यथार्थमाह भवती। किं त्विदं पक्षपातवचनम् / केनेममस्मताबलतरं मन्यसे / (क) किं ज्ञातास्म्यमात्येन यथार्थनामधेयेन यत्तापसीवर्णनव्याजनाहमेव वर्णिता / भवतु / एवं भणामि / (ख) यक्ष्मराजपक्षपातविशेषेऽपि योगिन्या पृष्टस्य यथार्थोत्तरमभणित्वा न शक्यं स्थातुमिति मन्यतेऽमात्यः /