________________ जीवानन्दनम् / भाषया वेषानुगुणमंपलपते प्रतिपक्षकुले च पक्षपातमात्मनः सूचयति / भवतु / अहमप्यजानन्निवानुनयन्पृच्छाम्येनाम् / (प्रकाशम् / ) अये तापसि, निखिलं जगतश्चरितं विज्ञातं ते समाधिनैव भवेत् / तन्मे महाप्रभावा भाग्येनासादिता भवती // 22 // धारणा-(स्वगतम् / ) मं तावसिं एव जाणिअ मह मुहादो पञ्चत्थिराअप्पउत्तिं सुणि अणुणअप्पआरो एसो / होदु / अहं वि अजाणन्तीव पुच्छामि / (प्रकाशम् / ) कस्त्वम् / क्व गच्छसि / सूनृतेन ते वचनेन साधुर्भवानिति पृच्छामि / (क) मन्त्री-(स्वगतम् / ) इयमात्मानं गोपयति / अहमपि तथैवोत्तरयामि / (प्रकाशम् / ) कार्यविशेषेऽधिकृतं जानीहि येनैवमधिकृतस्तन्निकटे गच्छामि / धारणा-(स्वगतम् / ) एसा विपक्खजणपक्खवादिणित्ति गोपणप्पआरो एसो / (प्रकाशम् / ) केनाधिकृतोऽसि / (ख) . मत्री-भगवति, त्वमेव जानासि / यतः प्रणिधानेन योगिनः सकलमपि प्रत्यक्षयन्ति / धारणा—(स्वगतम् / ) कहं एवं आपडिदम् / होदु / जोइणो विअ आसिअं करिअ अमचं वञ्चेमि / (इति ध्यानारूढा तिष्ठति / ) (ग) मन्त्री—(स्वगतम् / ) एषा खलु कृत्वा स्वस्तिकमासनं करयुगं विन्यस्य जानुद्वये ___ नासाग्रार्पिततारका नतमृजूकृत्यावलग्नं दृढम् / . निःश्वासोच्छ्रसितोपरोधघटितस्तैमित्यपीनस्तनी .. ' चित्ते मे कृतसंयमेव कुरुते धूर्ता महत्कौतुकम् // 23 // (प्रकाशम् / ) परिनिष्ठितं योगाभासनं भवत्याः / (क) मां तापसीमेव ज्ञात्वा मम मुखात्प्रत्यर्थिराजप्रवृत्तिं श्रोतुमनुनयप्रकार एषः / भवतु / अहमप्यजानतीव पृच्छामि / (ख) एषा विपक्षजनपक्षपतिनीति गोपनप्रकार एषः / (ग) कथमेतदापतितम् / भवतु / योगिन इवासिकां कृत्वा अमात्यं व- . ञ्चयामि /