________________ काव्यमाला। (ततः प्रविशति तापसीवेषा धारणा / ) धारणा-अहं खु पञ्चत्थिराआभिसेणणसंणाहं कस्स वि पुरिसस्स मुहादो सुदवन्तेण रण्णा 'इमं उत्तन्तं पुरं पविसिअ जाणीहि' त्ति पेसिदह्मि / मए वि तावसीवेसाए तह जाणिअ रण्णो समीवे समागमीअदि / (अग्रतो दत्तदृष्टिः स्वगतम् / ) एसो विण्णाणसम्मा अमच्चो आअच्छदि ।होदु / वेसेण पदारेमि णम् / जज्जवि सव्वस्सि वि कज्जे इमस्स अणुमदिं विणा राआ ण पवट्टइ तह वि जं मह संसओ वट्टइ ता एअकस्स पआसो ण भवे / (इति परिक्रामति / ) (क) __ मत्री-(दृष्ट्वा स्वगतम् / ) इयं तापसी राजप्रहिता प्रच्छन्ना किं धारणा भवेत् / भवतु / पृच्छामि / (प्रकाशम् / ) अये तापसि, का त्वम् / कुत आगच्छसि / धारणा—(स्वगतम् / ) इमस्स' पडिवअणं भासन्तरेण भणेमि / अण्णहा कहं वि जाणिस्सदि इअं सेति / (प्रकाशम् / ) अहं खलु गार्गी यक्ष्मणो राज्ञो वयस्या देव्या गृहिण्याः स्नेहसर्वस्वभाजनं तदन्तःपुरादेवागच्छामि / (ख) मत्री-(स्वगतम् / ) भवेदेवेयं धारणा तापसीवेषेण रिपुप्रवृत्तिमुपलभ्यागतवती / अयं स्वनामानुगुणमभिज्ञो वा न वेति मां परीक्षितुं संस्कृत (क) अहं खलु प्रत्यर्थिराजाभिषेणनसंनाहं कस्यापि पुरुषस्य मुखाच्छ्रतवता राज्ञा 'इमं वृत्तान्तं पुरं प्रविश्य जानीहि' इति प्रेषितास्मि / मयापि तापसीवेषया तथा ज्ञात्वा राज्ञः समीपे समागम्यते / एष विज्ञानशर्मा अ. मात्य आगच्छति / भवतु / वेषेण प्रतारयाम्येनम् / यद्यपि सर्वस्मिन्नपि कार्येऽस्यानुमति विना राजा न प्रवर्तते तथापि यन्मम संशयो वर्तते तदेककस्य प्रकाशो न भवेत् / (ख) अस्य प्रतिवचनं भाषान्तरेण भणामि / अन्यथा कथमपि ज्ञास्यति इयं सेति /