________________ 1 अङ्कः] . जीवानन्दनम् / (ततः प्रविशति जीवमन्त्री विज्ञानशर्मा।) विज्ञानशर्मा—('अरेरे शैलूषापसद-' इत्यादि पठित्वा विचिन्त्य / ) सर्वथा राजसमीपं गत्वा तदनुज्ञया यक्ष्मणः प्रवृत्तिमुपलब्धं चारान्प्रेषयिष्यामि / अथवा 'तत्प्रवृत्त्युपलम्भाय प्रेषय धारणाम्' इति मयोक्तो राजा तथा कुर्यात् / (श्रुतिमभिनीय / ) दिसूदञ्चति ताम्रचूडरसितं यद्भस्वदीर्घप्लुत प्रायोवर्णनिभं ब्रवीति तदिदं व्युष्टा निशाभूदिति / स्त्रीणां निर्गमनं विहृत्य पतिभिब्रूते विनैवाक्षरैः ___ क्रीडावेश्मकपाटिकाविघटन–कारपारम्परी // 17 // तदिदानी देव्या प्रसन्नया बुद्धया सह राजा प्रतिबुध्य निवसेत् / तदुपसमि / (इति पुरो दृष्टिक्षेपमभिनयन् / ) . चञ्चत्खेटकृपाणकञ्चुकशिरस्त्राकल्पदृप्यद्भटा सादिव्यञ्जितवक्रमण्डलगतित्वङ्गत्तुरङ्गवजा / गण्डद्वन्द्वगलन्मदाम्बुमुखरीभूतद्विरेफद्विपा दृष्टयोर्मे कुतुकाय राजभवनद्वारोपकण्ठस्थली // 18 // अपि च / .. प्रौढामात्यनिरुक्तमन्त्रपदवीवितम्भसंचारिणो राज्ञो दुःसहतेजसो निशमने यद्वद्धृति द्वेषिणः। प्रासादप्रतिहारवेदिषु तथा स्नेहाङ्कपात्रस्थिताः प्रत्यूषोपगमे प्रदीपमुकुलाः कान्ति त्यजन्त्यञ्जसा // 19 // (पुरो विलोक्य / ) का पुनरियं तपश्चरणननितप्रभुत्वगौरवेव मामभिवर्तते / गाढोन्नद्धजटाकलापकपिलश्रीधूतबालातपा बिभ्राणा भसितानुलेपधवलच्छायां तनुं पावनीम् / भिक्षापात्रमयूरपिच्छचराभृत्पाणिद्वया मेऽधुना काषायाम्बरधारिणी कलयति स्वान्ते धृति तापसी // 20 // (निपुणं निरूप्य / ) अस्यामक्षिभ्रुवं नासा रदपती रदच्छदः / चुबुकं मन्दहासश्च धारणायामिवेक्ष्यते // 21 //