________________ काव्यमाला। पुण्डरीककेयूरकमयूरकसारङ्गकतरङ्गकप्रभृतयः संनह्यन्ति / तथापि प्रयोगस्य बहुत्वेन दुरवगाहतया कथमभीप्सितार्थसिद्धिर्भविष्यतीति विचारेण व्याकृष्यत इव मे हृदयम् / / सूत्रधारः-यत्किचिदेतत् / महतामेषां सामाजिकानामनुग्रह एवास्माकमभीप्सितमर्थ समग्रयिष्यति / यतः / जाड्यं भिनत्ति जनयत्यधिकं पटुत्वं __सार्वज्ञमावहति संमदमातनोति / विद्वेषिवर्गविजयाय धृति विधत्ते किं किं करोति न महद्भजनं जनस्य // 14 // पारिपार्थकः-एवं च मन्ये त्वया सह स्पर्धमानोऽपि विकटनामा नटबटुरभिनयविद्यायां महदनुग्रहात्त्वयैव विजेप्यत इति / सूत्रधारः--विकटो नाम नंटबटुर्मया सह स्पर्धत इत्यतत्त्वत्रिदो वचनम् / शृणु तावत् / अभिनयविद्याविषये दुरहंकाराकुलीकृतो विकटः / सं नटबटुर्मी वाञ्छन्त्यभिभवितुं जीवमिव यक्ष्मा // 15 // (नेपथ्ये) __ अरे रे शैलूषापसद, 'अभिभवितुं जीवमिव यक्ष्मा' इति किमसंभावितमर्थ दृष्टान्तयसि। मयि जीवति जीवस्य स्वामिनो मन्त्रिणि प्रिये / दुर्बलो यक्ष्महतकः कथं वाभिबुभूषति // 16 // सूत्रधारः—(आकर्ण्य / ) मारिष, जीवराजमन्त्रिणो विज्ञानशर्मणो भूमिकामादाय मम कनीयान्कलहंसो रङ्गभुवमवतरति / तदावामप्यनन्तरकरणीयाय सज्जीभवावः / (इति निष्क्रान्तौ / ) प्रस्तावना।