________________ 1 अङ्कः] . जीवानन्दनम् / सूत्रधारः-(विहस्य / ) मारिष, त्वं न जानासि यत एवं ब्रवीषि / शृणु तावत् / आबाल्यादपि पोषितोऽजनि मया प्रेम्णा तथा लालित___ स्तेनासौ सरसामुपैतु कवितामानन्दरायाध्वरी / इत्येकक्षितिपालवंशजलधेर्देव्या गिरां जातया श्रीशाहावनिनायकाकृतिभृता नूनं प्रसादः कृतः // 10 // अत एव कवीनां पूर्वेषां कथमपि च चित्तैरवहितै__ गुंहीता या नासीत्सरसकवितासारपदवी / असौ तामाक्रामन्हरति नरसिंहाध्वरिकुल प्रदीपः सूरीणां श्रवणयुगजाड्यान्धतमसम् // 11 // पारिपार्श्वकः-श्रीशाहराज इति नाम दधत्याः सरस्वत्याः कियानानन्दरायमखिनि दयाविशेषः / यतः / पुष्यत्कौतुकपद्मसंभृतकरद्वन्द्वाङ्गुलीवेल्लन द्रातिष्पीडितचन्द्रमण्डलगलत्पीयूषधारासखैः / वाग्गुम्फैलवैरिधारितशचीधम्मिलमल्लीसर स्फारामोदमदापहैश्च कवयत्यानन्दरायाध्वरी // 12 // युक्तमुक्तं च भावेन 'शाहभूपतिरूपेण गिरां देवी जाता' इति / कथमन्यथानन्यसाधारणमस्य प्रागल्भ्यम् / तदिदानीमिदमुत्प्रेक्ष्यते-- भर्तु लालयितुं भुवि प्रथयितुं विट्ठजनानाश्रिता.. ' श्रीशाहक्षितिपात्मना क्षितिगतां मत्वा गिरां देवताम् / आसिञ्चन्नसकृत्कमण्डलुजलैरङ्गानि पर्याकुलो धाता वाहनहंसपक्षपवनस्तापं किलापोहति // 13 // सूत्रधारः-तन्नियोजय भूमिपरिग्रहायास्मद्वय शैलूषगणम् / पारिपार्श्वकः-बाढम् / किं तु सन्ति कथानायकस्य जीवस्य परिजना विज्ञानशर्मप्रभृतयः प्रतिनायकस्य च यक्ष्मणः परिजनाः पाण्डुश्वासकासज्वरगुल्मातिसारप्रभृतयः / तेषां यद्यपि भूमिकाग्रहणपटवो नटबटवः