________________ काव्यमाला। पारिपार्थकः-अतः किमाचरितव्यम् / सूत्रधारः-शृणु तावत् / अत्र तञ्जापुरे पौरजानपदा देशान्तरादागताश्च बृहदीश्वररथोत्सवदिदृक्षया संघीभूताः / सरसकवितानाम्नो हेम्नः कषोपलतां गता ___ विहरणभुवः षड्दर्शन्या विवेकधनाकराः / विदधति तपोलभ्याः सभ्या इमे मम कौतुकं ___ तदिह हृदयं नाट्येनैतानुपासितुमीहते // 5 // पारिपार्श्वकः-(सशिरःकम्पम् / ) कं पुनः प्रबन्धमवलम्ब्य / सूत्रधारः-नन्वस्ति मम वशे सदृदयजनहृदयचन्दनं जीवानन्दनं नाम नवीनं नाटकमिति / पारिपार्श्वक:-कस्तस्य प्रबन्धस्य कविः। सूत्रधारः-विद्वत्कविकल्पतरुरानन्दरायमखी / य एप इह गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः / दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव // 6 // यः स्नातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रितो येनाकारि सहस्रदक्षिणमखो यः सद्भिराश्रीयते / सोऽयं त्र्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभो___ यत्तातस्य नृसिंहरायमखिनस्तुल्यप्रभावोऽनुजः // 7 // पारिपार्थकः-(सबहुमानम् / ) आः, ज्ञायत एवायम् / किं त्वस्य सर्वलोकविदिता अप्येते गुणाः प्रबन्धनिर्वाहधूर्वहत्वमवबोधयितुं नेशते / यतः। आराध्नोति यदेष भक्तिभरितो देवान्द्विजातीन्गुरू___ न्यच्च श्रद्दधदातनोति समये नित्यादिकर्मत्रिकम् / यद्दीनेषु दयां करोति समरे शौर्य यदालम्बते तत्सर्वं नरसिंहयज्वसुततालाभस्य लीलायितम् // 8 // इदं तु श्रोतव्यम् / आनन्दरायमखिनो वाल्मीकेरिव योगिनः / / इतरापेक्षणात्सारः स्वतः सारस्वतोदयः // 9 //