________________ उन्मत्तराघवम् / रामः-(सीतां विलोक्य।) वत्स, अकाण्डपतितसुधाष्टिसदृशं सीतादर्शनम् / लक्ष्मणः-आर्य, एवमेतत् / (अगस्त्यं प्रति।) भगवन्, अत्र लतामण्डपे मुहूर्तमासनपरिग्रहः क्रियताम् / सर्वे तथा / (इत्युपविशन्ति / ) लक्ष्मणः-भगवन्, कथमासादिता जानकी / अगस्त्यः -श्रूयताम् / रामः--अवहिताः स्मः / अगस्त्यः -पूर्वमत्र वने दुर्वासाः कानिचिद्दिनानि तपः कृतवान् / मधुकरिका-मुलहकोव्वो क्खु एसो महेसी सुणिअदि / (क) रामः-ततस्ततः / अगस्त्यः-तस्मिन्समये तेषु तेष्वाश्रमेषु तीव्रतपःशङ्किना महेन्द्रेण विसृष्टानां चरन्तीनां मध्ये हरिणी नाम काचिदेतत्तपोवनं प्रविश्य पुष्पाण्यवाचिनोत् / .. रामः—हन्त, महान्प्रमादः / . अगस्त्यः-ततः परमभिषेकायागच्छन्नयं दुर्वासास्तामवलोक्य 'अये हरिणि, यतोऽस्मद्देवतार्चनोचितानि कुसुमान्यवचिनोषि, ततस्त्वन्नामसहशीमेवाकृतिमेहि' इति शशाप / तदानीमेव परित्यज्य वनमिदमन्तर्हितश्च / मधुकरिका-अम्हहे, अदिणिहरदा तावसाणम् / (ख) लक्ष्मणः-कथमस्यास्तदुपरमो जातः / अगस्त्यः-ततो हरिणीभूतां हरिणीमादायास्मदन्तिकं प्राप्ताभिरतिकरुणमाक्रन्दन्तीभिरप्सरोभिरभ्यर्थितेन मया कृपावशेनाभिमन्त्रिता दुर्वामुष्टिरर्पिता / तस्मिन्वने नास्याः प्रत्यासत्तिरासीत् / (1) रामः-किमाश्चर्यम् / (क) सुलभकोपः खल्वेष महर्षिः श्रूयते / (ख) अहो, अतिनिष्ठुरता तापसानाम् /