________________ 14 काव्यमाला। लक्ष्मण: ताताज्ञया यन्त्रिताः / रामः आयाताः कति वा वयं कथय मे लक्ष्मण: देव त्रयः राम: के च ते लक्ष्मण: त्वं चाहं जनकात्मजा च राम: दयिते कुत्रासि हा जानकि // 39 // (नेपथ्ये / ) . वत्से, मा भैषीः। लक्ष्मणः-(कणे दत्त्वा सहर्षे विभाव्य / ) आर्य, मधुकरिकासमेतां जानकी समाश्वासयन्कुम्भसंभवो महर्षिरित एवाभिवर्तते / (ततः प्रविशति यथानिर्दिष्टः कुम्भसंभवः / ) अगस्त्यः -वत्से, मा भैषीः / अयमिह त्वामन्विष्यन्नास्ते सलक्ष्मणो रामभद्रः। सीता-(रामं विलोक्य लज्जां नाटयन्ती स्वगतम् / ) एदेहिं विलोअणेहिं अजउत्तो दिहो त्ति अहो मे भाअहेअम् / (क) रामः-भगवन्, अभिवादये। अगस्त्यः -आयुष्मानेधि / / लक्ष्मणः-भगवन्, अभिवादये। अगस्त्यः -वत्स, चिरं जीव / सीता-जेदु जेदु अजउत्तो / (ख) मधुकरिका-जेदु जेदु महाराओ / (ग) (क ) एताभ्यां विलोचनाभ्यामार्यपुत्रो दृष्ट इत्यहो मे भागधेयम् / (ख) जयतु जयत्वार्यपुत्रः / (ग) जयतु जयतु महाराजः /